________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९मैं अध्यायः
सिद्धिस्थानम्। विधारणात् प्रतिहतं वातोदावर्तितं यदा। पूरयत्युदरं मूत्रं तदा तदनिमित्तरुक् ॥ अयं हि मूत्रविट्सङ्गस्तन्मूत्रजठरं वदेत् । .. मूत्रवरेचनी तत्र चिकित्सां संप्रयोजयेत् ॥ हिङ्ग द्विरुत्तरं चूर्ण त्रिमीये प्रकोर्तितम्। . हन्यान्मूत्रातिसङ्घातं व्याधिश्च गुदमेढ़योः ॥ १६ ॥ मूत्रितस्य व्यवायान्ते रेतो वातोद्धतं च्युतम् ।। पूर्व मूत्रस्य पश्चाद् वा स्रवेत् तत् कृच्छमुच्यते ॥ १७॥ खवैगुण्यानिलाक्षेपः किश्चिन्मूत्रश्च तिष्ठति। मणिसन्धौ स्रवेत् पश्चात् तदरुग् वाथवातिरुक् । मूत्रसङ्गः स विच्छिन्नन्तच्छेषं गुरुशेफसः ॥१८॥ वाताकृतिर्भवेत् वातान्मूत्रे शुष्यति संक्षयः ॥ १६ ॥ गङ्गाधरः-विधारणादित्यादि। मूत्रवेगविधारणात् प्रतिहतं मूत्र यदा वातेनोदावर्तितं सदुदर पूरयति, तदा तदनिमित्तगय मूत्रविट्सङ्गश्च स्यात् तन्मृत्रजठरं वदेत् । तस्य चिकित्सामाह-मूत्रवरेचनी मित्यादि । हिडित्यादि। त्रिमीये यद द्विरुत्तर हिड प्रकीर्तितं तत् मूत्रातिसङ्घात हन्यात् ॥१६॥
गङ्गाधरः-मूत्रकृच्छमाह-मूत्रितस्येत्यादि । स्पष्टार्थम् ॥१७॥ ... गङ्गाधरः-खवगुण्येत्यादिना मूत्रसङ्गः । खवगुण्यान्मूत्रद्वारवगुण्यादनिलाक्षेपश्च मणिसन्धौ शिश्नाग्रस्य सन्धौ किञ्चिन्मूत्रं तिष्ठति तत् तु पश्चादरुगतिरुण वा स्रवेत्, स मूत्रसङ्ग उच्यते। तच्छेषं विच्छिन्न सद गुरुशेफसो जनस्य वाताकृति स्यात् ॥१८॥ ४. चक्रपाणि:-अनिमित्तगिति अलक्ष्यमाणनिमित्तरुक्। मूत्रवैरेचनीमिति मूसविरेचनीयदशकप्रयोनरूपम्। हिङ्गद्विरुत्तरन्तु 'हिङ्गु वचा' इत्यादिनोक्तं हिङ्गादि द्विरुत्तरं यस्मिन् तजिद्धिहत्तरम् ॥ १६॥
चक्रपाणिः-मूवितस्येति मूतवेगगतस्य मूखवेगयुक्तस्येति यावत्। व्युतमिति स्वस्थानाज्च्युतम् । वातोदतमिति वातविभिप्तम् । एतल्लनणान्तरमुक्तमेव कृच्छम्, मूत्रकृच्छमितोऽन्य
४७१
For Private and Personal Use Only