________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
सिद्धिस्थानम् ।
मरिवं शिशु वीजानि विङ्गञ्च फणिज्भकम् । एतानि सूक्ष्मचूर्णानि दद्याच्छीर्षविरेचनम् ॥ हिङ्ग तुम्बुरु पथ्या च पौष्करं लवणत्रयम् । यवकाथाम्बुना पेयं हृत्पार्श्वर्यपतन्त्रके ॥ हिङ्गम्लवेतसं शुण्ठीं ससौव चर्चलदाडिमाम् । पिबेद वातकफलञ्च कर्म हृद्रोगनुद्धितम् ॥ शोधा वस्तयस्तीक्ष्णा हितास्तस्य च कृत्स्नशः । सौवर्चला भयाव्योषैः सिद्धं तस्मै घृतं हितम् ॥ ११ ॥ मधुरस्निग्धदुग्धादि सेवनातिद्रवश्रमात् । शोकाद् व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः ॥ यदासी समवस्कन्दा हृदयं हृदयाश्रयान् । समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते ॥
३७५५
कफवाताभ्यां रुद्धस्तं विमोक्षयेत् । कैरित्यत आह- तीक्ष्णः प्रधमनः संज्ञावहासु नाही मुक्ता संज्ञां विन्दतीति । मरिचमित्यादि । मरिचादीनि सूक्ष्म चूर्णानि, तस्य शीर्ष विरेचनं दद्यादिति । अत्र केचित् पठन्ति । हिङ्गित्यादि । हिंद्रादिलवणत्रयान्तं चूर्ण यवका थाम्बुना पेयम् । हिङ्गम्लवेतसादिपञ्चकचूर्ण जलेन पिबेत् । एवमपतानकेऽपतन्त्रके च हृदरोगनुत् कम्मे हितम् । शोधना इत्यादि । तस्य च कृत्स्नशः शोधना वस्तयो हिताः, सौवच्चलादिकल्क सिद्ध घृतश्च तस्म हितमिति ॥ ११ ॥
गङ्गाधरः– अथ तन्द्रामाह – मधुरेत्यादि । मधुरादिसेवनादतिद्रवादित्यतिधावनात् अतिश्रमाच्च शोकादितश्च वायुनोदीरितः कफः । असौ कफो यदा
For Private and Personal Use Only
चक्रपाणिः– यवक्वाथाम्बुनेति यवैः षडङ्गविधिना श्रतपानीयेन । हृद्रोगनुद् वातकफन' यत् कर्म तद्धितमपतन्सके । शोधना इत्यादी ' कृत्स्नशः शोधना न हिताः' इति वचनेन शोधनार्थस्तोकनिरूहदानम्, भूरिशोधननिरूहदाने तु वातक्षोभः स्यादिति भावः ॥ ११ ॥