________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्य अध्यायः ]
चिकित्सितस्थानम् ।
माषात्मगुप्ता गोधूम - शालिषष्टिकयष्टिकम् | शर्कराया विदार्य्याश्च चूर्णानि चुरकस्य च ॥ संयोज्य मसृणे क्षीरे घृते पूपलिकाः पचेत् । पयोऽनुपानास्ताः शीघ्रं कुर्व्वन्ति वृषतां परम् ॥ १२ ॥
वृष्या माषादिपूपलिकाः ।
Acharya Shri Kailassagarsuri Gyanmandir
इक्षुरकस्येति चक्रः ।
२९९
शर्करायास्तुलेका स्यादेका गव्यस्य सर्पिषः । प्रस्थो विदारीचूर्णानां पिप्पल्याः प्रस्थ एव च ॥ अर्द्धादिकं तुगाचीः चौद्रस्याभिनवस्य च । तत् सव्र्व्वं मूर्च्छितं तिष्ठेन्मार्त्तिके घृतभाजने ॥ मात्राग्निसमां तस्य प्रातः प्रातः प्रयोजयेत् । एष वृष्यः परं योगः कण्ठ्यो वृहण एव च ॥
१३ ॥
वृष्ययोनः ।
२३८१
गङ्गाधरः -- माषेत्यादि । यष्टिकमिति मधुयष्टिकम् | क्षुरकस्य कोकिलाक्षस्य । मापादीनां षष्टिकान्तानां पञ्चानां निस्तुषाणां चूर्णानि । पष्टिकादीनां चर्णानि मसृणे निर्मले क्षीरे संयोज्य मर्द्दितानि कृत्वा निर्गर्भाः पूपलिका घृते पचेत् । ता भक्षयित्वा पयोऽनुपिवेत् ॥ १२ ॥ वृष्या मापादिपूपलिकाः । गङ्गाधरः– शर्कराया इत्यादि । शर्कराया एका तुला सार्द्धद्वादशशरावं, गव्यस्य सर्पिपश्चैका तुला सार्द्धद्वादशशरावं, नात्र द्वैगुण्यं “ न द्वैगुण्यं तुलामाने पलोल्लुखागते तथा" इति वचनात् । विदारीचूर्णानां प्रस्थः शरावद्वयं पिप्पल्याश्चर्णितायाः प्रस्थ एव च शवारद्वयमिता एव, तुगाक्षी अर्द्धादकं चतुःशरावं, क्षौद्रस्याभिनवस्य चार्द्धाढकं द्रवद्वैगुण्यादष्टशरावम्, तत् सर्व्वं सम्यगालोड़नेन मिश्रीकृतं घृतभाविते मार्त्तिके भाजने तिष्ठेत् स्थापयेत् | अग्निसमां यथानिबलं मात्रां तस्य प्रयोजयेत् ।। १३ ।।
हृष्ययोगः ।
For Private and Personal Use Only