________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८०
चरक-संहिता। [ वाजीकरणपाद ४ घृतभृष्टान् रसे छागे रोहितान् फलसाधिते । अनुपीतरसान् सिद्धान् अपत्यार्थी प्रयोजयेत् ॥ १०॥
। गभाधानकरो योगः। कुट्टकं मत्स्यमांसानां हिङ्गसैन्धवधान्यकैः । युक्तं गोधूमचूर्णेन घृते पूपलिकाः पचेत् ॥ माहिषे च रसे मत्स्यान् स्निग्धाम्ललवणान् पचेत् । रसे चानुगते मत्यान् पोथयेत् तत्र चावपेत् ॥ मरिचं जीरकं धान्यमल्पं हिड नवं घृतम् । माषपूपलिकानां तद् गर्भार्थमुपकल्पयेत् ॥ एतौ पूपलिकायोगौ वृहणी बलवर्द्धनौ। हर्षसौभाग्यदौ पुत्री परं शुक्राभिवर्द्धनौ ॥ ११॥
वृष्यो पूपलिकायोगौ। गङ्गाधरः-घृतेत्यादि। रोहितान रोहितमत्स्यस्य बहून् खण्डान् सद्यस्कान् घृते भृष्टान् फलसाधिते दाड़ि मफलदधिसाधिते छागे रसे प्रक्षिप्य पूर्व तान् खादिवाऽनुरसं पिबेदित्येवं प्रयोजयदिति भावः ॥१०॥ गर्भाधानकरो योगः।
गङ्गाधरः-कुट्टकमित्यादि। मत्स्यानां मांसानां वा कुट्टकं खण्डखण्डीकृतं हिङ्गादियुक्तं मर्दितं गोधूमचर्णावेष्टितं कृता तसे घृते पूपलिकाः पचेत् । माहिषे च मांसरसे स्निग्धाम्ललवणान् घृतदाडिमसैन्धवयोगेन मत्स्यान् स्निग्धाम्ललवणीकृत्य,पचेत् । स च माहिषमांसरसः पाकात् तन्मत्स्ये शुष्कीभूतोऽनुगतो यदा स्यात् तदा तान् मत्स्यान् पोथयेत् कुट्टयेत् । कण्टकादिरहितेषु तत्र मत्स्येषु मरिचादिचूर्णानि नवञ्च घृतम् आवपेत् दत्त्वा मिश्रीकृत्य माषपिष्टरचिते पूपलिकार्थ वेष्टनगर्भे दत्त्वा पूपलिका घृते पचेत् । इत्येवं माषपूपलिकानां गर्भार्थ तत् उपकल्पयेदित्यर्थः। तद्गर्भ कृखा माषपूपलिकाः कारयेदिति भावः । एतौ कुट्टकमित्यादिना पचेदित्यन्त एकः, माहिषे च रसे मत्सयानित्यादिना त्वमर इत्येतौ पुत्रौ पुत्राय हितौ ॥ ११॥ वृष्यौ पूपलिकायोगौ। भोजनं द्रवस्य पानं झंयम्। 'मत्स्य'शब्देन प्रधानकल्पनया रोहितं वदन्ति। फलसारिक इति दाडिमामलकादिफलसारसंस्कृतम् । कुट्टकमिति कुट्टनेनाणुशः कृतम् ॥ ६ - ११॥
* फलसारिके इति वा पाठः ।
For Private and Personal Use Only