SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २य अध्यायः ] चिकित्सितस्थानम् । मांसानामेवमन्येषां मेध्यानां कारयेद् भिषक् । गुडिकाः सरसास्तासां प्रयोगः शुक्रवर्द्धनः ॥ ७ ॥ माषान रितान् शुद्धान् निस्तुषान् सजङ्गाफलान् । घृताढ्य माहिषरसे दधिदाडिमसाधिते ॥ प्रक्षिपेन्मात्रया युक्तो धान्यजीर कनागरैः । पीतो भुक्तश्च स रसः कुरुते शुक्रवर्द्धनम् ॥ ८ ॥ वृष्यमाहिषरसः । आर्द्राणि मत्स्यमांसानि भृष्टाश्च शफरीश्च वा । तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम् ॥ ६ ॥ वृष्या घृततलितमत्स्याः । Acharya Shri Kailassagarsuri Gyanmandir २३७६ गङ्गाधरः-- मांसानामित्यादि । मेध्यानां मेधाहितानां हंसादीनाम् । एवमुक्तप्रकारेण सरसा गुड़िकाः कारयेत् ॥ ७ ॥ 1 गङ्गाधरः - माषानित्यादि । जले पूर्व्वनिर्व्वापितान् सम्यगार्द्रान् माषान् पुनरतज्जलादुत्थापितान् ततोऽङ्करितान् पुनर्जलेन धौतीकरणात् शुद्धान् तुषरहितान् माषान् सजड़ाफलान् आत्मगुप्ताफलानि तथा निस्तुषाणि शुद्धानि समानमानेन नीत्वा तत्र मिश्रीकृतान् दधिदाड़िमसाधिते माहिषरसे घृताढ्ये प्रक्षिपेत् । ततोऽनुरूपेण धान्यजीरकनागरचूर्णैः सह युक्तः स रसो मात्रया यथाबलं पीतः । भुक्तश्च स सजड़ा फलमाषः शुक्रवर्द्धनं कुरुते ॥ ८ ॥ वृष्यमाहिषरसः । गङ्गाधरः - आर्द्राणीत्यादि । मत्स्या रोहितादयः । मांसानि वराहमहिषादीनाम् । आर्द्राणि सद्यस्कानि । शफरी चार्द्रा । एषामन्यतममेकं यथेष्टं तप्ते सर्पिषि भृष्ट्रा यः खादेदित्यर्थः ॥ ९ ॥ For Private and Personal Use Only वृष्यघृतत लितमत्समां से दधिदाड़िमसारिकम् । दाड़िमसारश्च दाड़िमरसः । मांसानामित्यादि । अतिदेशयोगो द्वितीय. मेध्यानामिति मेदुराणाम् । अजड़ा शूकशिम्बी । भुक्तः पीतश्चेति पूर्वयोगवत् । धनभागस्य * दधिदाड़िमसारिके इति पाठान्तरम् ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy