________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३७८
चरक-संहिता। ( वाजीकरणपाद ४ घृततैलरसक्षीर-शर्करामधुसंयुताः। वस्तयः संविधातव्याः क्षीरमांसरसाशिनाम् ॥ ५॥ . पिष्ट्रा वराहमांसानि दत्ता मरिचसैन्धवे । कोलवद गुड़िकाः कृत्वा तप्ते सर्पिषि भजयेत् ॥ भजनस्तम्भितास्ताश्च छ प्रक्षेप्याः कौक्कुटे रसे। घृताढ्य गन्धपिशुने दधिदाडिमसाधिते ॥ यथा न भिन्द्याद गुड़िकास्तथा तं साधयेद् रसम् । तं पिबन् भक्षयंस्ताश्च लभते शुक्रमक्षयम् ॥ ६ ॥
दृष्या मांसगुड़िकाः।
गङ्गाधरः-निरूहांचाह-घृतेत्यादि। सिद्धिषु यावन्तो वस्तयो निरूहवस्तयोऽनुवासनवस्तयश्च वक्ष्यन्ते, ते सर्वे वस्तयो घृतादिसंयुक्ताः क्षीरमांसरसेन विधातव्यास्तेन शुक्रापत्यविवर्द्धना भवन्तीति भावः। एवंसंस्कृतशरीराणां वक्ष्यमाणयोगान्यतमं यथाहयोगं प्रयुञ्जीत ततः सिध्यति ॥५॥
गङ्गाधरः-तं तं वाजीकरणयोगमाह-पिष्टे त्यादि। वराहमांसानि निरस्थीनि पिष्टा तत्रानुरूपे मरिचसैन्धवे चणिते दत्त्वा कोलवत् वृहद्धदरवद् गुड़िकाः कृता नवे तप्ते गोः सर्पिषि भर्जयेत्। भर्जनस्तम्भिताः सर्पिषि भजनेन वटकवदृढ़रूपेण स्तम्भिताश्च ता मांसगुड़िकाः स्युः। पूर्वन्तु कुक्कुटमांसं दना म्रक्षयिता घृते सन्तलनं कूला यावता जलेन स्वच्छरसो भवति तावता जलेन पक्त्वा पुनधिदाडिमरसौ दत्त्वा तं रसं साधयेत् तथा, यथा बहुघृते रसे तरिमन प्रक्षिप्तारता मांसगुड़िका न भिन्द्यात् तथा कृते कौक्कुटे रसे ता मांसगुड़िकाः प्रक्षिपेत् । तं रसं पिबन् ताश्च मांसगुड़ि का भक्षयनक्षयं शुक्रं लभते। प्रयोगकालोऽत्र फलोदयं यावत् ॥६॥
इति वृष्यमांसगुड़िकाः। व्यवायाभ्यासेन व्यवायसमर्था, भवन्ति। एवं प्रयत्न र्भवन्तीति। निरूहानुवासनाभिधाना बस्तयः ॥ १-५॥ . चक्रपाणि:-वर्तनस्तम्मिता इति वर्त्तनेन कटिनीकृताः। दधिदाडिमसाराभ्यां संस्कृतं * वर्सनस्तम्भितास्ताश्व इति वा पाटः। + दधिदाहिमसारिक इति काचित्कः पाठः ।
For Private and Personal Use Only