________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३८२
चरक संहिता | शतावर्या विदार्य्याश्च तथा माषात्मगुप्तयोः । श्वदंष्ट्रायाश्च निक्काथ लल्वणेषु पृथक् पृथक् ॥ साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः । शर्करामधुसंयुक्तमपत्यार्थी प्रयोजयेत् ॥ १४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
28
घृतपात्रं शतगुणे विदारीवर से पचेत् । सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत् ॥ शर्करायास्तुगाचीर्याः चौद्रस्ये चुरसस्य च । पिप्पल्याः सजड़ायाश्च भागैः पादांशिकैर्युतम् ॥
| वाजीकरणपाद ४
अपत्यकरं घृतम् ।
गङ्गाधरः - शतावर्या इत्यादि । पृथक् पृथक् वचनात् प्रत्येकं शतावर्यादीनां लवणं' मिलिला बहुलवणेषु अर्थात् पञ्चसु द्रोणेषु । अत्रः द्रवद्वैगुण्यात् शतावर्याः स्वरसोऽपि चतुःषष्टिशरावोन्मितः । विदार्य्याश्च स्वरसः चतुःषष्टिशरावोन्मितः । आर्द्रायाः शतावर्या नित्यप्रयोगेण न द्वैगुण्यम्, तस्याः स्वरसस्तु द्रवत्वेन द्विगुण इष्टः । माषात्मगुप्तयोः पृथक् काथद्वयं प्रत्येकं द्रोणमानं श्वदंष्ट्रायाश्च निक्काथो लल्वणमितः । एषु पञ्चसु द्रवेषु पञ्चद्रोणेषु घृतप्रस्थमेकं साधयित्वा पुनरष्टगुणे चतुःषष्टिशरावे गव्यदुग्धे साधयित्वा द्रक्षये सति अवताय्य शीते शर्कराया अर्द्धशरावं मधुन अर्द्धशरावं मिलित्वा धृतपादिक प्रक्षिप्याविलापेक्षया अपत्यार्थी प्रयोजयेत् ॥ १४ ॥ अपत्यकरं घृतम् ।
गङ्गाधरः - घृतपात्रमित्यादि । शतगुणे चतुःशतपात्रे शरावषोड़शशतमिते अकल्कं साधयित्वा पुनः शतगुणे पोड़शशतशरावमिते गव्ये पयसि अकल्क साधयेत्। ततो द्रवक्षये अवतार्य शर्करायाः तृगाक्षीर्याः तथेक्षरसस्यच च
For Private and Personal Use Only
चक्रपाणिः - इक्षुरकः कोकिलाक्षः । शर्करामधुसंयुक्तमित्यत प्रक्षेपन्यायात् पादिकत्वं शर्करामधुनोः ॥ १२ - १४ ॥
निष्काथं जलेषु च इति क्वचित् पठ्यते ।