________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय ]
सिद्धिस्थानम् ।
तत्र लोकाः ।
स्निग्धाम्ललवणमधुरं पानं वस्तिश्च मारुते कोष्णः । शीतं तिक्तकषायं मधुरं रक्ते च पित्ते च ॥ तीक्ष्णोष्णकषायकटु श्लेष्मणि संग्राहि वातनुच्छकृति । पाचनमामे पानं पिच्छादिवस्तयो रक्तः ॥ अतिसारं प्रत्युक्त मिश्रं इन्द्रामजेष्वपि + च । तत्रोद्र कविशेषाद दोषे पृथक्तमविशेषः ॥ ३५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
३७४५
यतिसारनाशनाः । एतेऽरिष्टाः ससपिटेवणा योज्याः, मधुरमैधुरीकृता-लवणः लवणीकृता वा योन्या इति ।। ३३ । ३४ ॥
गङ्गाधर - अध्यायार्थमाह-तत्र श्लोका इति । स्निग्धेत्यादि । मारुते स्त्रिग्धादिक भोज्यं पानश्च वस्तिव कोष्णः । शीतादिकं रक्ते च पित्ते च । तीक्ष्णोष्णादिकं श्लेष्मणि संग्राहि वातनुच्च शकृति अतिसारिते । आमे पाचनं
For Private and Personal Use Only
affaireni इक्षुकुशकाशशालिमूलानाम् । शास्यादितण्डुलैरिति रक्तशालिकल मादितण्डुलैः । दध्यादिभिरत जलस्थानीयैः यवागूः साधनीया ॥ ३०–३४॥
चक्रपाणिः - प्रपञ्चोक्तं भेषजं संग्रहेणाभिदधाति - भवति चात्रेत्यादि । पानमिति पाचनपानम् । वस्तिश्चेति स्निग्धाम्ललवणमधुर एव वस्तिः । मारुत इति मारुतातिसारे । एवमन्यश्रपि पित्त इत्यादौ पित्तादिजातिसार इति ज्ञेयम् । संग्राहि वातनुदित्यक्ष भेषजमिति शेषः । तच भेषजं यथोक्तवस्त्यादिरूपमेव । पाचनमामे पानमिति पाचनमिति घनातिविषादिद्रव्यकृतं पानमित्यर्थः । पिच्छावस्तयोऽसृग्वस्तयश्चेति पिच्छासृग्वस्तयः । उक्तमिति साक्षादतिदेशेन च सिकादिसंसर्गे प्रोक्तम् । मिश्रमिति एतदेव प्रत्येकं मिश्रीकृतम् । द्वन्द्वादियोगज इति विचतुष्कादिसंसर्गजेऽतिसारे । तोकादिविशेषादिति संसर्ग एव बलाबल विशेषादुपक्रमस्यापि विशेषो भवति एतदेव बलापेक्षं बहुदुर्बला ऽप्रत्यनीकवस्त्येक भेषजमिति शेषः ॥ ३५ ॥
।
• पिच्छा सुग्वस्तयो रके इति वा पाठः ।
+ द्वन्द्वादियोगजऽपीति चक्रष्टतः पाठः ।