________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
●म अध्यायः ]
सिद्धिस्थानम् ।
भाद्र शाल्मलिवृन्तैश्च तुरगैराजं श्रुतं पयः । सर्पिषा योजितं शीतं वस्तिं धीरः प्रयोजयेत् ॥ वटादिपल्ल्ववेष्वेष कल्पः पञ्चतिलेषु च । सुवच्चेलोपोदिकयोः कर्बुदारे च शस्यते ॥ गुदे सेकाः प्रदेहाश्च शीताः स्युर्मधुराश्च ये । रक्तपित्तातिसारघ्नो क्रिया चात्र प्रशस्यते ॥ २३ ॥ तत्र श्लोकाः । इत्येता व्यापदः प्रोक्ता वस्तेः साकृतिभेषजाः । बुद्धा कान्येन तान् वस्तीन् नियुञ्जन्नापराध्यति ॥ तीक्ष्णत्वं मूत्रमस्त्वादि - - लव एचार सर्षपैः प्राप्तकालं विधातव्यं चीरादेर्मार्दवं तथा ॥
*
Acharya Shri Kailassagarsuri Gyanmandir
पित्तं रक्तश्च विदत्यपि स गुदो विदग्धं पित्तमस्रञ्चानेकवर्णविशिष्ट बहुधा स्रवति । तस्यातिवेगेनासकृत् मोहं गच्छति । इति परिस्रवो व्यापत् ।। २२ ।।
गङ्गाधरः- तत्र चिकित्सामाह - आर्द्रत्यादि । आर्द्रः शाल्मलिवृन्तः क्षुण्णः कुट्टितः कल्कैरष्टां शिर्केश्वतुगु णजले मृतं सर्पिषा युक्तं वस्तिं प्रयोजयेत् । वटादिपल्लवेष्वेष एव बस्तेः कल्पः । तथा पञ्चविधतिलेषु चष एव वस्तेः कल्पः । पश्चविधं तिलं कृष्णादिभेदात् । यथालाभं कल्कीकृत्याजं पयः पक्त्वा वस्तिः कल्पयः स्यादिति । सुवर्चला सूर्य्यभक्ता उपोदिका पोदिना तयोः कल्केनाजं पयः पक्त्वा घृतयुक्तं वस्तिं कल्पयेत् । तथा कर्बुदारे रक्तकाञ्चनवचि कल्के छागं पयः पक्त्वा घृतयुक्तं वस्तिं कल्पयेत्, स च वस्तिः शस्यते । गुद इत्यादि । ये मधुराः शीताच सेकाः प्रदेहाश्च स्युर्या च रक्तपित्तातिसारनी क्रिया सा चात्र प्रशस्यते इति ।। २३ ।
गङ्गाधरः - अध्यायार्थमाह-तत्र श्लोका इत्यादि । इत्येता इत्यादि । तीक्ष्णत्वमित्यादि । प्राप्तकालं वस्तेस्तीक्ष्णत्त्रविधानकाले प्राप्ते मूत्रादिभिभाद्र' शामलीवृन्तोकक्षीरसंस्कारकरूपः । सुवर्च्च लमिति सुनिषण्णकमाहुः । कदु दाराः कामानालः । इत्येता इत्यादिसंग्रहः । यस्मादेता व्यापदो वस्तिदुष्प्रयोगजन्या भवन्ति, तस्मात् कार्त्स्न्येन वस्तीन् पीवादीति चक्रधृतः पाठः ।
1
४६८
For Private and Personal Use Only
३७३३