________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७३२
चरक-संहिता। वस्तिव्यापत्तिद्धिः मृदुकोष्ठेऽल्पदोषस्य रूक्षस्तीक्षणोऽतिमात्रया। वस्तिर्दोषान् निहन्त्याशु जनयेत् परिकर्तिकाम् ॥ त्रिकवङ्क्षणवस्तीनां तोदो नाभेरधः रुजम्। विबन्धाल्पाल्पमुत्थानं वस्तेनिलेखनं भवेत् ॥ २० ॥ खादुशीतौषधैस्तत्र पय इक्ष्वादिभिः शृतम् । यष्टाह्वतिलकल्काभ्यां वस्तिः स्यात् क्षीरभोजिनः ॥ ससञ्जरसयष्टाह्व-जिङ्गिनीकर्दमाञ्जनम्। विनीय दुग्धे वस्तिः स्यात् तिक्ताम्लमृदुभोजिनः ।। २१ ॥ पित्तरक्तेऽम्ल ऊष्णो वा तीक्ष्णो वा लवणोऽपि वा। वस्तिर्गदं विलिखति तीक्ष्णोऽतिविदहत्यपि ॥ सविदग्धं स्रवत्या पित्तं चानेकवर्णवत् ।
बहुधा ह्यतिवेगेन मोहं गच्छति वासकृत् ॥ २२ ॥ अथ परिकर्तिकां निरूहव्यापदमाह-मृदुकोष्ठ इत्यादि। अल्पदोषस्य पु सो मृदुकोष्ठे रूक्षस्तीक्ष्णो वस्तिरतिमात्रया दत्त आशुदोषान् निहन्ति, परिकत्तिका मुदे कतैनवत् पीड़ां जनयेत्। त्रिकादितोदनाभ्यधो रुजादिः स्यात् । वस्तनिलेखनं किश्चिञ्चविदरणं निःशेषेण भवेत् ॥२०॥
गङ्गाधरः-तत्र चिकित्सामाह-स्वाद्वित्यादि। स्वादुशीतोषधद्रव्यरिक्ष्यादिभिः भृतं पयो हितं स्यात् । क्षीरभोजिनश्च यष्टयाहतिलकल्काभ्यां युक्तो वस्तिः हितः स्यात्। ससज्जैत्यादि। तस्मिन् दुग्धे सर्जरसयष्टीमधुसहितमञ्जिष्ठाकहेमरसाञ्जनं कल्कीकृत्य दत्त्वा वस्तिः स्यात् । तिक्ताम्लमृदुभोजिन इति तिक्तादिभोजी स्यादिति ॥२१॥ . गङ्गाधरः-अध परिस्रवं व्यापदमाह-पित्तेत्यादि। पित्तरक्तऽधिक सति अम्लाद्यन्यतमो वस्तिर्दत्तो गुदं बिलिखति ईषद् विदीर्ण करोति तत्र तीक्ष्णो मस्तिः
क्रपाणिः-मृद्वित्यादिना परिकर्तिकामाह । रूक्षतीक्ष्णोऽतिमाखवानिति शेण तीक्ष्णेनातिमात्रेण वस्तिनाकर्षणात् । तिक्ताम्लेति बस्तिविशेषणम् ॥ २० ॥२१॥
चक्रपाणिः-पित्तरक्तेत्यादिना परिस्रवमाह। तीक्ष्णोऽतिविदहस्यपि अतिविदाहं करोति।
For Private and Personal Use Only