________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
सिद्धिस्थानम्। स्नेहस्वेदैरनापाद्य गुरुतीक्ष्णातिमात्रया। यस्य वस्तिः प्रयुज्येत नातिमात्रं प्रयुज्यते ॥ स्तब्धोदावृत्तकोष्ठस्य रुद्धः स्रोतःसु मारुतः। प्रपन्नोऽङ्गरुज कुय्योत् त तैललवणान्वितम् ॥ उष्णाम्बुप्रस्तरक्वाथैः स्वेदैस्तमुपपादयेत् । सविल्वतैललवणो निरूहस्तस्य शस्यते ॥
तैलावगाहखिन्नस्य कारयेदनुवासनम् ॐ ॥ १८ । १६ ॥ भुक्तेऽन्ने सति तीक्ष्णानुलोमिकेन तलेनानुवासयेदिति। अथाङ्गार्ति निरूह. व्यापदमाह-स्नेहेत्यादि। पुरुषं स्नेहस्वेदरनापाद्य स्नेहस्वेदाभ्यामापन्नं न कृवा गुरुतीक्ष्णद्रव्याणामतिमात्रया वस्तियंस्य प्रयुज्येत, अथवा नातिमात्रं प्रयुज्यते, तस्य स्तब्धोदात्तकोष्ठस्य स्रोतःसु रुद्धो मारुतः प्रपन्नः सन्नहरु कुर्यात् । इत्यङ्गात्तिनाम निरूहव्यापत्। तत्र चिकित्सामाह-तमित्यादि। तमङ्गात्र्तिमन्तं तललवणाभ्यक्तपुष्णाम्बुना स्वेदेनाऽथवा प्रस्तरस्वेदेनाथवा काथेन स्वेदेन समुपाचरेत् । विल्वतललवणान्वितो निरूहश्च तस्य प्रशस्यते। इषदुष्ण. तलद्रोण्यामवगाहेन स्विन्नस्य तस्यानुवासनं कारयेदिति ॥ १८॥१९ ।। उपयु परि धावतीत्यर्थः । विरेचयेदिति वा शेषः। अमुविरेचयेदिति वा पाठः । तीक्ष्णानुलोमिके अन्न अनुभुक्ते सति अनुवासयेदिति योज्यम्। किंवा तीक्ष्णानुलोमिकेनैवानुवासनं सुस्विनस्निग्धदेहस्येत्यादिनाङ्गग्रहमाह । सोऽतिमात्रं प्रवत्तं येत् दोषानिति शेषः । ततस्तब्धादावृत्तकोष्ठ प्य स्रोतःसु रुद्धो मारु:: अङ्गरुजां करोति। भुक्तवतो यद्यपि अनुवःसनं सव भवति, तथापि भुक्तवत इति व नेन भोजनानन्तरमेशनुसनं दर्शयति । साध्यामत्यर्थः। स्नेहस्वेदैरनापायेति स्नेहस्वेदैः शरीरं नोपपाद्यम् ॥ १८ । १९॥ • अभज्य विधिना सम्यक् स्निग्धं कायं ततः परम् । विरेचनै नरहश्च वस्तिभिश्चानुलोमकैः ॥
सुस्वकस्निग्धदेहस्य यस्य वस्तिविधीयते। अतितीक्ष्णो गुरुश्चैव सोऽतिमात्र प्रवर्तयेत् ॥ न तेषु तस्य रूक्षेषु निरूढस्यातिमावशः।। स्तब्धोदावृत्तकोष्ठम्य वायुः स प्रतिहन्यते ॥ विलोमनसमुन्तो रुजत्यङ्गानि देहनः। गात्रवेष्टननिस्तोदभेद-स्फरणजम्भणैः ॥ सं तैरलवणाभ्यक्तं सेचयेदुष्पवारिणा। एरण्डपक्षनिष्काथैः प्रस्तरैश्चोपपादयेत् ॥ यवान् कुलस्थान् कोलानि पञ्चमूले तथोभये। जलादकद्वये पक्त्वा पादशेषेण तेन च ॥ कुर्यात सविस्वतैलोष्ण-लवणेनानुवासनम् ।। निरूहणं समाश्वस्तं द्रोण्या तमवगाहयेत् ॥
ततो भुक्तवतस्तस्य कारयेचानुवासनम् । यष्टोमधुकतैलेन विल्वतैलेन वा भिषक पा९ इति पाठान्तरम् ।
For Private and Personal Use Only