________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२६
चरक संहिता |
अल्पवीर्यो महादोषे रूक्षः क्रूराशये कृतः । वस्तिर्दोषावृतस्तूड मधो रुन्ध्यात् समीरणम् ॥ स विमार्गोऽनिलः कुर्य्यादाध्मानं मम्र्म्मपोड़नम् । विदाहं गुरुकोष्ठस्य मुष्कवङ्क्षणवेदनाम् । रुद्धि हृदयं शूलैरितश्चेतश्च धावति ॥ १० ॥ श्यामाफला लवण - पिपली कुष्ठ सर्षपैः । धूममाषवचा किएव चार चूर्णैगेड़ : कृताम् ॥ कराङ्गुष्ठनिभां वर्त्तिं यवमध्यां प्रवेशयेत् । अभ्यक्तविश्वगात्रस्य तैलाक्तां स्नेहिते गुदे । अथवा लवणागार धूम सिद्धार्थकैः कृताम् ॥
-
[ वस्तिव्यापसिद्धिः..
गङ्गाधरः- क्लमव्यापच्चिकित् सा मुक्त्वाध्मानव्यापदमाह - अल्पेत्यादि । क्रूराशये क्रूरकोष्ठे महादोषे नरे कृतोऽल्पवय्य रूक्षो वस्तिर्महादाषेण तनावृतः सन् समीरणमृद्ध मधो रुन्ध्यात् । स खलु विमार्गः सन् मम्मेपीड़नमाध्मानं कुर्य्यात्, विदाहञ्च कुर्य्यात् । गुरुकोष्टस्य तस्य मुष्कादिवेदनां कुर्य्यात् । हृदयश्च रुणद्धि । शुल्व पुनरितस्ततथ धावति । इत्याध्मानम् ॥ १० ॥ गङ्गाधरः- तत्र चिकित्सामाह - श्यामेत्यादि । अपामार्गतण्डुलीयोक्तः श्यामादास्त्रिवृतां त्रिफलामित्यादुक्तः फलादारिति च तत्रोत्तर्मदनं मधुक निम्बमित्यादावणादिभिर्गुड्रान्तः कृतां करानुष्ठनिभां वर्त्ति यवमध्यामाद्यन्ततनुकां मध्यस्थूलां तलाक्तामभ्यक्तविश्वगात्रस्य तलाभ्यक्तसर्वाङ्गस्य स्नेहिते गुदे प्रवेशयत् । अथवा सम्धवलवणागारधूम श्वेतसर्षपः कृतां वर्त्ति तथाविधानेन
For Private and Personal Use Only
चक्रपाणिः - अल्पवीर्य इत्यादिना आध्मानमाह । रुद्धमार्ग इति निवारिताधोमार्गः, स चानिलं रुणद्धि, अनिलश्च रुद्रमार्गतया आध्मानं करोति । मर्म्मपीड़नमित्याध्मानविशेषणम् । रुणद्धि हृदयमिति हृदयं व्याप्नोति । इयामाफलादिभिरिति श्यामादिभिर्नवभिः फलादिभिश्च कल्पस्थानोक्कै । धूमशब्देनेह गृहधूमग्रहणम् । गुड़स्यास तावन्मानं भवति यावता वर्त्तिः कर्त्त युज्यते । भिन्नमानञ्च यस तल गुड़स्य पृथकपलम् । कराङ्गुष्ठनिभामित्यत्र करग्रहणं पादाङ्गुष्ठनिषेधार्थम् । अथवेत्यादिनोक्कां द्वितीयवत्तिमाह । तवर्त्तिध्वसिद्धयर्थं गुड़ादयो ब्राझाः ।
• रुद्रमार्ग इति चक्रसम्मतः पाठः ।