________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ मण्याया]
सिद्धिस्थानम् । क्लमं सदाहं हृच्छूल मोहवेष्टनगौरवम् । कुर्यात् स्वेदविरूषैस्तं पाचनैश्चाप्युपाचरेत् ॥८॥ पिप्पलीकत्तृणोशोर-दारुमूर्वाभृतं जलम् । पिबेत् सौवर्चलो.न्मभं दोपनं हृदविशोधनम् । वचानागरसज्जैला दधिमण्डेन मूर्छिताः । पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा॥ दारु त्रिकटुकं पथ्यां पलाशं चित्रकं शटीम् । पिष्टा कुष्ठश्च मूत्रेण पिबेत् क्षारांश्च दोपनान् ॥ वस्तिमस्य विदध्याच्च समूत्रं दाशमूलिकम् । समूत्रमथवा व्यक्त-लवणं माधुलिकम् ॥ ६ ॥
जाठरमग्निश्च हिनस्ति सदाहलमादीन् कुर्यात् । तत्र चिकित्सामाह-स्वेदः विरूपश्च पाचनश्च तं नरमुपाचरेदिति ॥ ८॥
गङ्गाधरः-क्लमव्यापदाश्चकित्सान्तरमाह-पिप्पलीत्यादि । पिप्पल्यादिभिः भृतं जलं सौवचेलोन्मिश्रं पिबत् । वचेत्यादि । सर्जा साजेकाक्षारः। वचादीनां च दधिमण्डेन दधिमस्तुना मूच्छेिताः सम्यगालोड़िताः पेयाः पातव्याः, अथवा प्रसन्नयालोड़िताः पेयाः स्युरथवारिष्टेनालोड़िताः पेयाः स्युः, अथवाप्या. सवेनालोड़िताः पेयाः स्युरिति । दाब्वेित्यादि। दारुप्रभृतिकुष्ठान्तं पिया गोमूत्रेण पिवेत् । दीपनान् क्षारांश्च पिबेत् । वस्तिमित्यादि । अस्य क्लमव्यापनस्य दाशमूलिकं दशमूलकाथकृतं सगोमूत्रं वस्तिं विदध्याचाथवा सगोमूत्र व्यक्तलवणं माधुतलिकं वस्तिमस्य विदध्यादिति ॥९॥ खोतांसि रुणद्धि । मूच्छपतीति मार्गरोधात् कोपयति। ये तु दोषशब्देनेह कर्फ प्रात्यन्ति,
मते मख सचिवाहत्वममुफ्पन्नम् । वचेत्यादौ मूर्छिता इति भालोड़िताः । भारांश्च दीपनानिति महणीचिकित्सिताइरफान्। दशमूलिकमिति द्विपञ्चमूलेत्यादिनाकम् । किंवा दशमूलकाथकृतम् । मधुतैलिकं वक्ष्यमाणम् ॥ ८॥९॥
४६७
For Private and Personal Use Only