________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७१८
चरक-संहिता। [वमनविरेचनव्यापसिद्धिः । तैनान्नं मिश्रितं दद्यात् वायसाय शुनेऽपि वा। भुङ्क्ते तच्चेद् वदेज्जीवं न भुङ्क्ते पित्तमादिशेत् ॥ शुक्ल वा भावितं वस्त्रमाधान कोष्णवारिणा। प्रक्षालितं विवर्णञ्चेत् पित्तं शुद्धन्तु शोणितम् ॥४१॥ तृष्णामूर्छामदातस्य कुर्यादामरणात् क्रियाम् । तस्य पित्तहरी समितियोगे च या हिता॥ मृगगोमहिषाजानां सद्यस्कं जीवतामसृक् ।
पिबेज्जीवाभिसन्धानं जीवं तद्याशु गच्छति ॥ अतितीक्ष्णं भेषजं विरेचनौषधं दोषान हला विनिम्मंथ्य जीवं शोणितं हरति निहेरति ॥४०॥
गङ्गाधरः-सरक्तविरके जीवरक्तपरीक्षामाह-तेनेत्यादि । यदक्तं विरिच्यते तेन रक्तेन मिश्रितमन्नं वायसाय शुनेऽपि वा दद्यात् । तद्रक्तमिश्रितमन्नं चेद वायसः श्वा वा भुङ्क्ते तदा जीवं रक्तं वदेव। न चेद भुङ्क्ते तदा पित्तमादिशेत् । परीक्षान्तरमाह-शुक्लं वेत्यादि । तेन रक्तेन भावितं म्रक्षितं शुक्लं वनमाधान कोष्णवारिणा प्रक्षालितं चेद विवर्ण स्यात् तदा पित्तं वदेव, चेच्छुद्धमविवर्ण शुक्लमेव तद वस्त्रं भवेत् तदा शोणितं जीवरक्तं वदेत् ॥४१॥
गङ्गाधरः-तस्य चिकित्सामाह-तृष्णेत्यादि। तस्य तृष्णादिभिरात्तस्य खल्वामरणात् मरणपय्येन्तं पित्तहरौं सर्वा क्रियां कुर्यात्। या वातियोगे हिता क्रिया, ताश्च कुर्यात् । तथा मृगादीनां जीवतां सद्यस्कममृक् पिबेत् । तदरक्तं हि यस्मात् जीवाभिसन्धानमभि सर्वतोभावेन जीवं सन्दधाति भवति किचिच्च जीवशोणितक्षोदो भवति। तद्विशेषपरीक्षामाह-तेनानमित्यादि। पित्त. माविशेविति शोणितागतं पित्तमादिशेत्, रक्त पिसमिति यावत् । शुक्ल वा भावितमिति-पित्तमिति रक्तपितम्, भालितं वस्त्र विवर्ण भवति। जीवशोगिते तु सति शुद्ध वस्त्र भवतीति परीक्षा चिकित्साभेदार्थमेव, रक्तपित्तहरी क्रिया कर्तव्या-जीवशोणितन्तु दृष्ट्वा तृषामूर्छामदातस्येत्यादि. नोक्ता कर्तव्या । अतियोगे च या हितेति भत्रैव पूर्व कषायमधुरैरिस्यादिनोक्ता ज्ञेया। जीवं तद्धाशु
For Private and Personal Use Only