________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः ] - सिद्धिस्थानम्।
३७१६ तदेव दर्भमृदितं रक्तं वस्तिं प्रदापयेत् । श्यामाकाश्मयंवदरी-दूर्वावीरः शृतं पयः ॥ घृतं मण्डाञ्जनयुतं वस्तिं शीतं प्रदापयेत् । पिच्छावस्तिं सुशीतं वा घृतमण्डानुवासनम् ॥ ४२ ॥ गुदभ्रंशं कषायैश्च स्तम्भयित्वा प्रवेशयेत् । सामगन्धर्वशब्दांश्च संज्ञानाशे च कारयेत् ॥४३॥ यदा विरेचनं पीतं विड़न्तरवतिष्ठते। वमनं भेषजान्तं वा दोषानुत्क्लेश्य नावहेत् ॥ तदा कुर्वन्ति कण्डादीन् दोषाः प्रकुपिता: गदान् ।
सविन शानतस्तत्र स्याद् यथाव्याधि भेषजम् ॥ ४४ ॥ सश्लषयति, तस्मात् तत् पिबन्नाशु जीवं गच्छति। तदेव मृगादीनां जीवतां सद्यस्कं रक्तं दभमृदितं कुशेन मूलेन मदितं वस्तिं प्रदापयेत् । श्यामादिभिः कल्कैश्चतगुणजले शृतं पयः घृतमण्डरसाञ्जनयुतं वस्तिं प्रदापयेत् । पिच्छावस्ति वा पदापयेत्। सुशीतं घृतमण्डानुवासनं वा प्रदापयेत् ॥४२॥
गङ्गाधररा-अथ गुदभ्रशं व्यापदमाह-गुदभ्रशमित्यादि। कषायवटादिवल्कलकाथादिभिः स्तम्भयित्वान्तः प्रवेशयेद् गुदम् । तत्र संज्ञानाशे सामशब्दान् गन्धर्वशब्दान् सङ्गीतशब्दान् कारयेत् ॥४३॥ ... गङ्गाधरः-ननु कुत एव स्यादित्यत आह-यदेत्यादि। यदा विरेचनमौषधं पीतं (पित्तं निहन्तुम् ) विडन्तरवतिष्ठते, वमनमौषधश्च दोषानुक्तिश्य भेषजान्तं पीतवमनौषधान्तं वमनं नावहेत्, तदा कण्डादीन सविभ्रशान् गदान कृपिता दोषाः कुचन्ति। तत्र यथाकण्डादि भेषजं कुर्यात्। गुदभ्रंशसंचाभ्रशविधिरिदेवोक्त इति ॥४४॥ गष्यतीति तदसक प्रभावादेव जीवरूपतां याति । श्यामेत्यादौ कल्पान्तरमाह । गुदभ्रंशमित्यादिना विशमाह। कषायैरिति कषायरसैः। सामेत्यादिना संज्ञारूपविशचिकित्साचाह। साम सान्स्वनम् । गन्धर्वशब्दो गोतम् । एतौ च विनं शौ अयोगजन्यौ। यदेत्यादिना तृतीयमयोगजन्यं विभ्रंशमाह। विदन्तरवतिष्ठत इति मूलमपहृत्यावतिष्ठते। भेषजान्तमिति भेषजमात्रं वमनं नावतिष्ठते। नावहेदिति नापहरति। अस्याः व्यापदो विभ्रसंज्ञा पारिभाषिकी
For Private and Personal Use Only