________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७१६
चरक-संहिता। (वमनविरेवनव्यापसिद्धिा अल्पञ्च बहुदोषस्य दोषानुत्क्लेश्य भेषजम् । अल्पाल्पं लावयेदल्पं शोफ कुष्ठानि गौरवम् ॥ कुर्याचाग्निबधोत्क्लेश-स्तैमित्यारुचिपाण्डुताः। परिस्रावगतं दोषं शमयेद् वामयेत् तदा ॥ स्नेहितं वा पुनस्तीक्ष्णं पाययेच्च विरेचनम् । शुद्धे चूर्णासवारिष्टान् संस्कृतांश्च प्रयोजयेत् ॥ ३६ ॥ पीतोषधस्य वेगानां निग्रहात् पवनादयः। कुपिता हृदयं गत्वा घोरं कुर्वन्ति निग्रहम् ॥ हिक्कापार्श्वरुजाकास-दैन्यलालाक्षिविभ्रमैः । जिह्वां खादति निःसंज्ञो दन्तान् किटिकिटापयन् ॥ न गच्छेद विभ्रमं यावद् वामयेदाशु तं भिषक् । मधुरैः पित्तमूर्ति कटुभिः कफमूच्छेितम् ॥ गङ्गाधरः-अल्पञ्चेत्यादिना सावं व्यापदमाह। बहुदोषस्य नरस्याल्पं विरेचनौषधं दोषानुक्लिश्याल्पाल्प गुदतः सावयदल्पशोफादिकं कुर्यात् । तत्र चिकित्सामाह-परिसावेत्यादि । तदा परिस्रावगतं दोषं शमयेत् तथा वामयेत् । पुनश्च स्नेहं कृखा तीक्ष्णं विरेचनं भेषजं पाययेत्। तेन शुद्धे सति चूर्णमासव. मरिष्टं संस्कृतं प्रयोजयेत् ॥३६॥ - गङ्गाधरः-पीतोषधस्येत्यादिना हृदग्रहं व्यापदमाह। पीतविरेचनौषधः पुमानागतपुरीषवेगानां निग्रहञ्चेत् करोति, तदा तस्य पवनादयः कुपिता हृदयं गला हिक्कादेघोरं निग्रह कुन्वेन्ति, स च निःसंशः सन् दन्तान किटिकिटापयन् जिहां खादति। तत्र चिचित्सामाह-न गच्छेदित्यादि। तत्र यावद विभ्रमं न गच्छेत् तावदाशु तं नर पित्तमूर्ति मधुरट्रेव्यः कफमूर्ति कटुभिद्रेव्यः
चक्रपाणिः- अल्पमित्यादिना परिनावमाह । शमये वामयेदित्यादौ अस्पदोषे शमनम्, बहुदोषे जगतदोषे तु विरेचनमिति व्यवस्था। धामयेदपीत्यवापि स्नेहितं पुनरिति सम्बध्यते । चूर्णासवारिष्टग्रहणमर्शश्चिकित्सासु ज्ञयम् ॥ ३६ ॥
चक्रपाणि:-पीतोषधस्येत्यादिना हृदप्रहमाह। न गच्छद् विभ्रमं तत्रेति हृद्ग्रहपीड़ितोऽयं नियमाणो वायमिति भ्रान्तिं न गच्छेदित्यर्थः। वमतवास, मूर्च्छिते का प्रयोगा, तेव
For Private and Personal Use Only