________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व अध्याया] सिद्धिस्थानम्।
३७१५ लकनं दीपनं सामे रूतोष्णं लघु भोजनम् । वृहणीयो विधिः सर्वः क्षामस्य मधुरस्तथा ॥ ३३ ॥
आमेऽजीणे तु बन्धश्चेत् क्षारोऽम्लं लघु शस्यते । पुष्पकाशीशमिश्र वा धारेण लबणेन च ॥ सदाडिमरसं सर्पिः पिबेद वातेऽधिके सति ॥ ३४ ॥ दध्यम्लं भोजने पाने संयुक्तं दाडिमत्वचा। देवदारुतिलानां वा कल्कमुष्णाम्बुना पिबेत् ॥ अश्वत्थोडुम्बरनन-कदम्वैर्वा शृतं पयः। कषायमधुरं शीतं पिच्छावस्तिमथापि वा।
यष्टीमधुकसिद्धं वा स्नेहवस्तिं प्रदापयेत् ॥ ३५ ॥ सामे च दोषे बलवद वमनविरेचनयोरौषधं पीतं तस्य गुदं गला सामं दोषं निरस्य तत्र गुदे सपिच्छास्रां तीव्रशुलां परिकर्तिकां करोति ॥ ३२॥
गङ्गाधरः-तत्र चिकित्सामाह-लङ्घनमित्यादि। सामे लवनादिकम् । क्षोमस्य दृहणीयो विधिर्मधुरश्च रसः॥३३॥
गाधरः-आमाजीण चेद् बन्धस्तदामविबन्धः, तदा क्षारोऽम्लं लघु च भोजनद्रव्यं शस्यते। तत्र वातेऽधिके सपिः पुष्पकाशीशक्षारसन्धवदाडिमरसंमिश्रं पिबेत् ॥३४॥
गङ्गाधरः-भोजने पाने च दाडिमफलखकचणेमिश्रमम्लं दधि पिबेत् । देवदारुतिलकल्कमुष्णाम्बुना वा पिबेत् । अश्वत्थादिवल्कलशृतं पयः पिवेत् । अथवा कषायादि पिच्छावस्तिं यष्टीमधुकसिद्धं स्नेहवस्तिं वा प्रदद्यात् ॥३५॥ ज्यापसी परिकर्तिः निजोदाहरणमेव कल्पनीया। तन्त्रान्तरेऽप्युक्तं या परिकर्तिका विरेवने तवद् बमने, योऽधः परिस्रावो विरेचने स वमने कफसेका, तदनया दिशा आध्मानादीनि वमनविरेपनवोरयोगातियोगजन्यतया व्याख्यातम्यानीत्येके। भाशु दोषं निरस्येति वमनातियोगजन्ये व्यापत् । अत्र लङ्घनादिक्रिया अतियोगे सत्यपि आमपाचनार्था। क्षामेण मृडकोष्ठे नेत्यादि. सम्प्राप्तिजनितस्य भामपुरीषप्रभवस्य लङ्घनाद्य पक्रमः । अत एव कर्तव्यमाह-आमेऽजीणे इत्यादि । क्षाराम् लघु शस्यत इति-अतिसारे यदुक्तं-"चाङ्गेरी कोलदध्यम्ल-नागरक्षारसंयुतम्। घृतभुतकथितं पेयं गुदद्मशरुजापहम्" इति ज्ञेयम्। पुष्पकासीसमित्यस पुष्पशब्देन केचित् सांप्राहिकाणि धातकीकुसुमादीनि प्राहयन्ति ॥३१-३५॥
For Private and Personal Use Only