________________
Shri Mahavir Jain Aradhana Kendra
३७१२
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ वममविरे वनव्यापत् सिद्धि:.
बलवरचयं दाहं कण्ठशोषं क्लमं तृषम् । कुर्य्याच्च मधुरैस्तत्र शेषमौषधमुल्लिखेत् ॥ २५ ॥ २६ ॥ वमने तु विरेकः स्याद् विरेके वमनं मृदु । परिषेकावगाहादाः सुशीतैः स्तम्भयेच्च तम् ॥ कषायमधुरैः शीतैरन्नपानौषधैस्तथा । रक्तपित्तातिसारघ्नैर्दा हज्वरहरैरपि ॥ २७ ॥ अञ्जनं चन्दनोशीर मजासृक्शर्करोदकम् । लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम् ॥ वमनस्यातियोगे तु शीताम्बुपरिषेचितः । पिबेत् फलरसैर्मन्थं सघृत क्षौद्रशर्करम् ॥ शुङ्गादिभिर्वटादीनां सिद्धां पेयां समाक्षिकाम् ।
वर्चः सांग्राहिकैः सिद्ध चीरं भोज्यञ्च दापयेत् ॥ तीक्ष्णं विरेचनभेषजं विहादीन हत्वा द्रवान् धातून स्रावयेत्, तथा बलक्षयादीन् कुर्य्यात् । तत्र मधुररौषधः शेषं विरेचनमौषधमुल्लिखेत् वामयेत् || २५ | २६ ॥
गङ्गाधर - वमन इत्यादि । वमने त्वतिप्रयुक्ते विरेकः स्यात्, विरेके मृदु वमनं स्यात् । सुशीतः परिषेकाद्य च तं स्तम्भयेत् । तथा कषायमधुरः शीतरन्नादिभिः स्तम्भयेत् । रक्तपित्तादिहरः स्तम्भयेत् ॥ २७ ॥
गङ्गाधरः - अञ्जनमित्यादि । अञ्जन रसाञ्जनं चन्दनोशीरं पिष्ट्वा अजस्य छागस्यासक शकरोदकञ्च मेलयिला लाजचूर्णमन्थमालोहितं विरेचनस्यातियोगहरं पिबेत् । वमनस्येत्यादि । वमनातियोगे फलरसर्दाडिमामलकादिफलरसमम्थं लाजादिसक्तकमालोड़ितं सघृतक्षौद्रशर्करं पिबेत् । विरेकातियोगे भोजनमाह - शुङ्गत्यादि । वटादीनां पञ्चकषायवृक्षाणां शुङ्गः कथितः कल्कैर्वा वुभुक्षिते च विपित्तकफहरणक्रमेण विरेचनस्य अतिसेवनं युज्यते, तेन वमनातियोगसामग्री वातमेदोहर मोहीया । किंवा अतितीक्ष्णमिति पदेनैव वमनस्यापि तीक्ष्णत्वम् अतियोगस्य कारणमुखम् । विपित्तकफहरण' यथायोग्यतया क्रमेण वमने बोद्धव्यम् । शेषमौषधमुल्लिखेदिति जीर्णावशेषं विरेचनौषधमुल्लिखेत् वामयेत् । मृद्विति पदं वमनेन विरेचनेन च सम्बध्यते ॥२६॥२७॥ चक्रपाणि-चटादीनामिति न्यग्रोधोदुम्बराश्वत्थ लक्षकपीतनानाम् ।
1
वच:संग्राहकैरिति