________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः सिद्धिस्थानम्।
३७११ तानेव जनयेद् रोगान् नयोगः सर्व एव सः। विज्ञाय मतिमांस्तत्र यथोक्तां कारयेत् क्रियाम् ॥ तं तेललवणाभ्यक्तं खिन्न प्रस्तरसङ्करैः। पाययेत पुनर्जीर्णं समूत्र निरूहयेत् ॥ निरूदञ्च रसैर्धन्वैर्भोजयित्वानुवासयेत् । फलमागधिकादारु-सिद्धतैलेन मात्रया॥ स्निग्ध वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत् । न चातितीक्ष्णेन ततो ह्यतियोगस्तु जायते ॥ अतितीक्ष्णं क्षुधातस्य मृदुकोष्ठस्य भेषजम् ।
हत्वाशु विपित्तकफान् धातून् संस्रावयेद् द्रवान् ॥ विरचनोषध न विरेचयेत् । तानेव विभ्रंशादीन् रोगान् जनयेदिति स एव सवों नयोग उच्यते। तत्र चिकित्सामाह-विशायेत्यादि। यथोक्तां यस्य व्याधेर्या चिकित्सा क्रिया, तां कारयेत्। तद् यथा-तमित्यादि । तं वमनविरेचनायोगयुक्तं नरं तललवणाभ्यक्तं प्रस्तरसङ्करः स्वेदैः खिन्न पूर्वदिनाहारे जीणे प्रातः पुनर्वमनं विरेचनं वा यदयोगयुक्तं तत् पाययेत्। अथवा गोमूत्रयुक्तनिरूहयोगनिरूहयेत्। निरूढश्चत्यादि। निरूढश्च तं धन्वमांसरसा भोजयिखानुवासयेत्। येनातुवासयेत् तदाह–फलेत्यादि। फलं मदनफलम्, फलादिभिः कल्कश्चतुर्गुणे तेषां काथे पक्कतलेन मात्रयानुवासयेदित्यन्वयः । एवं स्नेहवस्तिना स्निग्धं तं नरं पुनर्वातहरः स्नेहः स्नेहयिखा तीक्ष्णेन विरेचनेन शोधयेत्। अतियोगहेतुमाह-अतीत्यादि। क्षुधात्तस्य मृदुकोष्ठस्य जातिअपक्व । दोषान् उत्क्लेश्य न निर्हरेत्, पीतमिति शेषः। एते वयः प्रतिपादिताः तानेव मलप्रस्ताव पठितानयोगजन्यरोगान् जनयेयुः। एवमतियोगलक्षणतया वक्ष्यमाणगदेष्यपि साम्यम् । सबोकामिति 'पीतौषधो न शुद्धश्चेद' इत्यादिनोक्ताम् । किंवा अने त तैलेत्यादिप्रन्यो । पायोनिति संशोधन पाययेत् । धन्वैरिति धन्वमृगपक्षिमासैः ॥२५॥
पाणिः-अतियोगस्य हेत्यादिमाइ-इयत्र सामग्री विरेचनावियोगस्यैव । यमबुद्धकोठे
For Private and Personal Use Only