________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४ अध्यायः ]
सिद्धिस्थानम् ।
उत्क्लिष्टश्लेष्म दुर्गन्धमहृद्यमति वा बहु । विरेचनमजीर्णे च पीतमूर्द्ध प्रवर्त्तते ॥ चुधार्त्तमृदुकोष्ठाभ्यां पीतं स्वल्पकफेन वा । तीक्ष्ण स्थिरं संतुभितं वमनं स्यादु विरेचनम् ॥ ( अयोगे तत्र कर्त्तव्यं समासेनाभिधीयते । ) प्रातिलोम्येन दोषाणां हरणात् तेष्वकृच्छ्रतः । प्रयोगसंज्ञ े कृच्छ्रेण न चागच्छति चाल्यशः * ॥ २१ ॥ पीतौषधो न शुद्धश्चेज् जीर्णे तस्मिन् पुनः पिबेत् । औषधं न त्वजीर्णेऽन्यद् भयं स्यादतियोगतः ॥
Acharya Shri Kailassagarsuri Gyanmandir
३७०६
गङ्गाधरः- कथमूढं प्रवर्त्तते ? उत्क्लष्टत्यादि । यत् तु विरेचनौषधमाहारे सत्यजीर्णे पीतं भवति, दुर्गन्धमहृद्यमतिमात्रं वा बहु वा उक्लिष्टश्लेष्म वा उत् क्लिष्टः श्लेष्मा येनौषधेन तत् पीयते तदा विरेचनौषधमूर्द्ध प्रवर्त्तते । वमनौषधप्रातिलोम्यकारणमाह- क्षुधार्त्तेन मृदुकांष्ठेन वा जनन तथाल्पकफेन जनेन वा पीतं तीक्ष्णं स्थिरगुणं संक्षुभितञ्च वमनं विरेचयतीति विरेचनं स्यादिति । तंत्र विधानमाह - प्रातिलोम्येनेत्यादि । उक्तरूपेण विरेचनेन वमनेन च दोषाणां प्रातिलोम्येन हरणात् तेषु प्रतिलोमं गतेषु दोषेषु अकृच्छ्रतः कष्टाभावेऽपि अयोगसं विरेचनायोगे वमनायोगे च कृच्छ्र ेण दोषो न चागच्छति अल्पशश्च नागच्छति ॥ २१ ॥
गङ्गाधरः
:- पीतौषध इत्यादि । पीतौषधो नरश्चेन्न शुद्धः स्यात्, तदा तस्मिन् औषधे जीर्णे सति पुनर्मात्रां बुद्धा तदौषधं पिबेत् । न तु पूर्वी पधेऽजीर्णे सति ।
दोषहरणादयोग इति संज्ञितम् । प्रतिलोमहरणे अकृत्स्नदोषहरणमेव दर्शयन्नाह - कृत्स्नेमेत्यादि । प्रतिलोमहरणे दोषाः अकृत्स्नशो यान्ति, अयोगादल्पशो यान्तीति भावः । तेन अकृत्स्नदोषहरणं प्रतिलोमहरणे नोपपन्नमिति भावः । कृच्छ्रेण यदागच्छति चाल्पश इति वा
पाठः ॥ १९ – २१ ॥
चक्रपाणिः - चिकित्सामाह - पीतौषष्टेत्यादि । जीर्णे इति औषधे जीण पुनः पिबेदिति वदह
For Private and Personal Use Only
• अकृच्छत इत्यन अकृत्स्नशस्तथा कृच्छ्रेणेत्यस कृत्स्नेन इति चक्रसम्मतः पाठः ।
४६५