________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७०८
चरक-सीहता। (वमनविरेचनव्यापरिदिः आध्मानं परिकर्तिश्च स्रावो हृदगात्रयोप्रहः । जीवादानं सविभ्रंशः स्तम्भः सोपद्रवः क्लमः। अयोगादतियोगाच्च दशता व्यापदः स्मृताः॥ प्रष्यभैषज्यवैद्यानां वैगुण्यादापदः स्मृताः। शुद्धोक्लिष्टेन दुर्गन्धमहृद्यमतिबाध्यते ॥ १६ ॥ योगः सम्यक् प्रवृत्तिः स्यादतियोगोऽतिवत्तनम् ।
अयोगःप्रातिलोम्येन न चाल्पं वा प्रवत्तेनम् ॥ २०॥ . गङ्गाधरः-व्यापद आह-आध्मानमित्यादि। आध्मानादयो दश व्यापद औषधस्यायोगाद भवन्त्यतियोगाच्च भवन्ति । कुतः पुनराध्मानादयो जायन्ते ? तदाह-प्रेष्येत्यादि। प्रेष्याः परिचारकाः। प्रेष्यादित्रयाणां वगुण्यादापदः स्मृताः। कस्माद व्यापदुच्यते ? तदाह-शुद्धोक्लिष्टेन दोषेण दुर्गन्धमहृयश्च यदा स्यात् तथातिबाध्यते, इत्यतो व्यापदुच्यते ॥१९॥
गङ्गाधरः-योगातियोगायोगलक्षणमाह-योग इत्यादि। अयोगः खल्लु विरेचनौषधस्य प्रातिलोम्येनोद्वैभागेन प्रवर्त्तनं न च प्रवर्तनमल्पं वा प्रवर्तनम् इति ॥ २०॥
चक्रपाणिः-संशोधनायोगातियोगजन्या व्यापदः प्राह-आध्मानमित्यादि। आध्मानादयश्वामो अवश्यमयोगातियोगाभ्यां भवन्ति। तत उपद्रवभूतत्वात् पृथगुक्ताः। एताश्च न्यापदाप्रेष्यादिवंगुण्यात् उत्पन्नयोगातियोगाच्च भवन्तीति वाक्यार्थः। तताध्मानमयोगाद् भवति. परिकर्तिश्चातियोगात् स्रावस्तु अयोगात् हृद्दानग्रहोऽप्ययोगादेव। जीवादानमतियोगाद भवेत् । विभ्रशस्तु विविधो वक्तव्यः । तत्र गुदभ्रशसंज्ञान शौ अतियोगजन्यौ, शेषस्तु विभ्रशो अयोग जन्यः । स्तम्भः क्लमश्चायोगजन्यावेव। एतेषां वा अयोगासियोगजन्यत्वविभाम उसरपल्ले स्फुटो भविष्यति । यद्यपि चायोगागियोगमिथ्यायोगा रोगकारणत्वेनोक्तास्तथापीह वमनविरेचनपोक मिथ्यायोग नेच्छन्ति। यतो दोषाणां चतुर्विधा गतिर्भवति। अतिप्रवृत्तिरसम्पप्रवृत्तिरप्रवृत्ति. रल्पप्रवृत्तिर्वा। तवाल्पप्रवृत्तिरयोगे गृहीत एव प्रातिलोम्येन। अप्रवृत्तिस्तु दोषखापेक्षिकलाप्रवत्त कस्वादयोगगृहीत एव। वक्ष्यति हि अयोगः प्रातिलोम्येन न थाल्पं वा प्रवर्तनम्। योगस्वरूपमाह-योग इत्यादि। अतिवर्तनमिति संशोध्यापेक्षया अतिरिक्त प्रवर्तनम् । प्रातिलोम्येनेति वमनस्य विरेचनेन विरेचनस्य वमनेन प्रवर्तनम्। एतच प्रातिलोम्यप्रवर्तने अलस्क
For Private and Personal Use Only