________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः . सिद्धिस्थानम्।
३७०७ कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके। तर्पणादिक्रमं कुर्यात् पेयाभिष्यन्दयेद्धि तान् ॥ १५ ॥ अनुलोमोऽनिलः स्वास्थ्य क्षुत् तृष्णा सुमनस्कता। लघुत्वमिन्द्रियोद्वार-शुद्धिर्जीणों षधधाकृतिः ॥ १६ ॥ क्लमो दाहोऽङ्गसदनं भ्रमो मूर्छा शिरोरुजा। अरतिर्बलहानिश्च सावशेषोषधाकृतिः ॥ १७ ॥ अकालेऽल्पातिमात्रञ्च पुराणं न च भावितम् । असम्यक् संस्कृतञ्चैव व्यापदेवतौषधं ध्रुवम् ॥१८॥ गङ्गाधरः-पेयादिक्रमापवादमाह-कफेत्यादि। कफपित्ते वमनविरेचनाभ्यां विशुद्धऽल्पमसम्यगविशुद्ध तर्पणादिक्रम कुर्यात् । मद्यपे जने सम्यग विशुद्ध तथा वातपत्तिके सम्यग विशुद्ध तर्पणादिक्रमं कुर्यानतु पेयादिक्रमं कुर्यात् । कस्मात् ? पेया हि यस्मात् तान् तेषां दोषानभिष्यन्दयेत् ॥१५॥ .
गङ्गाधरः-औषधजीर्णलक्षणमाह-अनुलोम इत्यादि। इन्द्रियाणासुद्वारस्य च शुद्धिः ॥१६॥ - गङ्गाधरः-औषधाजीणलक्षणमाह-क्लम इत्यादि। सावशेषेति जीर्णावशेषाजीणौ षधस्याकृतिः॥१७॥ - गङ्गापरः--यादशौषधं पीतं व्यापद्यते तदाह-अकाल इत्यादि। अकाले पीतं गुणवदोषधं व्यापदेप्रत व्यापत्तये सम्भाव्यते। अल्पमात्रमतिमा वा पुराणं वा न च भावित भावनाहीनं असम्यक सस्कृतमसम्यगमावनया भावितम् ॥१८॥ वृद्विरुक्ता सा च विरेचनौषधक्षोभातिसङ्गादग्निवृद्धिर्जायते। तेन तस्य यात्यग्निर्मन्दतामिति वचनेन समं न विरोधः ॥ १४॥ .
चक्रपाणि:-तर्पणादिविषयमाह-कफपित्त्यादि। अल्पं विशुद्ध इति असम्यगविशुद तर्पणादिकमेल पेयास्थाने लाजसक्तु विलेपोस्थाने च मांसरसोदकं देयम् ॥ १५ ॥
चक्रपाणिः-जीणौषधलिङ्गान्याह-अनुलोम इत्यादि । जजों बलम् । इन्द्रियशुद्भिरिन्द्रियपाटबम् । उदारस्य चौषधिगन्धादिरहितत्वमपि शुद्धिः। भेषजातियोगमाह-अकाल इत्यादि। भल्पातिमात्रं अल्पं चातिमालश्च । म च भावितमिति अभावितम् ॥ १६-१८॥
For Private and Personal Use Only