________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ वमनविरेचनव्यापवसिद्धिः
३७०४
चरक संहिता |
चारोत् क्लिष्टो यथा वस्त्रे मलः संशोध्यतेऽम्बुना । स्नेहस्वेदैस्तथोत्क्लश्य शोध्यते शोधनैर्मलः ॥ ८ ॥ अजीर्णे वर्द्धते ग्लानिर्विबन्धश्चापि जायते । पीतं संशोधनञ्चैव विपरीतं प्रवर्त्तते ॥ ६ ॥ अल्पमात्रं महावेगं बहुदोषहरं सुखम् । लघुपाकं सुखाखादं प्रीणनं व्याधिनाशनम् ॥ अविका विपन्नञ्च नातिग्लानिकरञ्च यत् । गन्धवर्णरसोपेतं विद्यान्मात्रावदौषधम् ॥ १० ॥
मित्यादि । अग्निर्यथाद्र काष्ठं सर्व्वशो विष्कन्दयति विशोषयति तथा स्विन्नस्य नरस्य दोषान् भैषज्यं विरेचनौषध सर्व्वशो हरति । क्षारेत्यादि । वस्त्रे क्षारोद क्लिष्टो मलो यथाम्बुना संशोध्यते, तथा स्नेहस्वेदः शरीरे उत्क्लेश्य मलः शोधन मनादिभिः शोध्यत इति । इति शोधन विधिरुक्तः ॥ ८ ॥
गङ्गाधरः– अथ अजीर्णे शोधनौषधपाने दोषमाह - अजीर्ण इत्यादि । अजीर्ण पूर्व्वाहारे शोधनौषधे पीते ग्लानिः प्रवर्त्तते, विबन्धश्च जायते शारीरमळ न निःसारयति ॥ ९ ॥
गङ्गाधरः- संशोधनद्रव्यगुणमाह- अल्पमात्रमित्यादि । यत् संशोधनमोप यद्यल्पमात्र प्रयुक्तं महावेगादि स्यात्, तदा तदौषधं मात्रावद् विद्यात् ॥ १० ॥
For Private and Personal Use Only
सर्व्वतः स्थितं द्रवम् आकर्षति । अग्निदृष्टान्तेन सम्यग दोषस्य आहरणमुच्यते । तृतीयेन दृष्टान्सेन स्नेहस्वेदयोर्मिलितयोः फलमुच्यते । क्लिष्टमिति मलिनम् । उत्क्के इथेति क्षीराग्निसम्बन्धात् समुत्क्लश्य ॥ ८ ॥
चक्रपाणिः-शोधन सम्यग्योगसामग्रयभिधाने प्रोकस्नेहस्वेदयोः फलमभिधाय क्रममासस्य जीण पोतमित्यस्य विपर्यये दोषमाह-अजीर्णे वर्द्धते ग्लानिरिति । भजीर्णावस्थायां पीते हो सहली ग्लानिर्भवति । विपरीतं प्रवर्त्तत इति वमनमधो याति विरेचनचोद्ध" याति ॥ ९ ॥ चक्रपाणिः— मात्रावदिति यदुक्तं तदृविवृणोति — अल्पमासमित्यादि । अल्पमात्रं महामं अपमानत्वे सत्यपि महावेगम् । अविकाराविपसमिति ईषट्विकारकारी । साझावदिति प्रशस्त