________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वष्ट अध्यायः ] ... सिद्धिस्थानम् ।
३७०३ विसर्पपिड़काशोफ-कामलापाण्डुरोगिणः।
अभिघातविघातांश्च नातिस्निग्धान् विरेचयेत् ॥ ६॥ नातिस्निग्धशरीराय स्नेहं दद्याद विरेचनम् । स्नेहोलिष्टशरीराय रूक्षं दद्याद विरेचनम् ॥७॥ स्नेहस्वेदोपपन्नेन जीणे मात्रावदोषधम्। एकाग्रमनसा पीतं सम्यग् योगाय कल्पते ॥ स्निग्धात् पात्राद् यथा तोयमयत्नेन प्रणुद्यते। कफादयः प्रणुद्यन्ते स्निग्धाद देहात् तथौषधैः॥ आर्द्र काष्ठं यथा ह्यग्निर्विष्कन्दयति सर्वशः । तथा स्विन्नस्य भैषज्यं दोषान् हरति सर्वशः ।। गङ्गाधरः-तत्राह-विसर्पत्यादि। विसर्यादिमतो नातिस्निग्धान विरेचयेत् वमनविरेचनाभ्यां शोधयेदिति ॥६॥ ... गङ्गाधरः-अतिस्निग्धशरीराय स्नेहं विरेचनं न दद्यात् । स्नेहोक्लिष्टशरीराय रूक्षं विरेचनं दद्यात् ॥७॥
गङ्गाधरः-स्नेहस्वेदेत्यादि। स्नेहस्वेदाभ्यामुपपन्नेन नरेण खल्वेकानमनसा पूच्चे दिनाहारे जीणे सति मात्रावदोषध विरेचनौषधं पीत सम्यग योगाय कल्पते। तत्र दृष्टान्तः-स्निग्धादित्यादि। स्निग्धात् तलघृतादिभिः स्निग्धात् पात्राद् भाण्डादितो यथा तोयमयत्नेन सुरवेन प्रणुद्यते प्रेय्येते, तथा विरेचनौषधः पीतः स्निग्धाद देहात कफादयः प्रणुद्यन्ते सुखेनेति । आर्द्रकाष्ठस्नेहं वान्ते प्रयोजयेदिति संशोधनकर्मपरिसमाप्तौ संशोधनजनितम्लानिपरिहारार्थ संशमनीयं स्नेहं प्रयोजयेदित्यर्थः। नातिस्निग्धानिति स्निग्धानाम् अवश्यकर्त्तव्ये विरेचने सति अनतिस्निग्धातिस्निग्धयोः असम्यगयोगकारकं विरेचनं न दद्यादित्यर्थः । भनतिस्निग्धविरेचनातिस्निग्धविरेचनयोगप्रतिषेधार्थ नातिस्निग्धे स्नेहविरेचनं स्नेहोक्लिष्टशरीरे रूक्षं विरेचनं देयम् ॥४॥
चक्रपाणिः-सम्यगयोगकारिको संशोधनसामग्रीमाह-स्नेहस्वेदोपपन्न नेत्यादि। मातावविस्यल्पमासम्। महावेगमित्यादिना वक्ष्यमाणमातावत्त्वं ज्ञेयम् । एकाग्रमनसेति संशोधनकचित्तेन। . म्यप्रमनसो हि अयोगः स्यात्। स्निग्धात् पावादिति दृष्टान्तेन स्नेहस्वेदयोरवश्यपध्यक्षा सूचयति । अयत्नेन इति अप्रयासेन। प्रणुद्यत इति विष्यन्दयति । सर्वत इति
तथा स्निग्धस्य वै दोषान् स्वेदो विष्यन्दयेत् स्थिरान् इति वा पाठ।
For Private and Personal Use Only