________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७०२
चरक-संहिता। (वमनविरेचनव्यापत्सिदिः एतानृतून विचिन्त्यैवं दद्यात् संशोधनं नृणाम् ।
वस्थवृत्तमभिप्रत्य व्याधी व्याधिवशेन तु॥ कर्माणि वमनादीनि त्वन्तरे चान्तरे पुनः । ®
स्नेहस्वेदो प्रयुञ्जीत स्नेहाद्यन्ते प्रयोजयेत् ॥ ४॥५॥ शरत् पुनरूज्जः कार्तिकः सहा अग्रहायण इति द्वौ मासौ शेयौ। वसन्तस्तु तपस्यश्च फाळगुनः मधुश्चत्र इति द्वौ मासौ श यौ। शोधनं प्रति वमनविरेचने प्रति त्रय एते ऋतवः ; शेषा वशाखज्यष्ठौ ग्रीष्मः, भाद्राश्विनौ वर्षाः, पौषमाधौ शिशिरः, एषु न शोधनमिति ख्यापितम् । एतानित्यादि। स्वस्थवृत्तमभिप्रेत्य खल्वेतान्तून् त्रीनेवं विचिन्त्य नृणां संशोधनं दद्यात्। व्याधौ तु व्याधिवशेन खल्वेषां प्राइटशरवसन्तानामन्तरेऽन्तरे च वर्षाशिशिरग्रीष्मेषु च पूर्वं स्नेहस्वेदौ प्रयुञ्जीत, स्नेहस्वेदान्ते वमनादीनि कर्माणि प्रयोजयेत् ॥ ४॥५॥ आषाढश्रावणो, ऊर्ज सही कार्तिकमार्गशीषौं, तपस्यः फाल्गुनः, मधुश्चैत्रः। शोधर्म प्रतीत्यनेन शोधने कर्तव्ये अयं यथोक्तप्रावृतुविभागो भवति। खस्थवृत्तौ तु तस्याशीतीयोक्त एवं वर्षाशरद्धेमन्तशिशिरवसन्तप्रीष्मरूपो ऋतुक्रमो भवति। एतान् ऋतूनिति प्रावृद्धादीन् ऋतून् । विचिन्त्यैवेति यथोक्तमासविभागेन व्यवस्थाप्य संशोधनं दद्यात्। संशोधनक्रमादि न वेगान् धारणीये-"माधवप्रथमे मासि नभस्य प्रथमे पुनः । सहस्य प्रथमे चैव हारयेद् दोषसञ्चयम्" इत्यनेन अन्थेन चैत्रे श्रावणे अग्रहायणे वमनादि संशोधनम् उक्तम् । तथा रोगभिषजितीये शिशिरं परित्यज्य प्रावृड़ादिक्रमः संशोधनाङ्गतया उक्तः, तेन रसबलोत्पत्तौ स्वस्थवृत्तानुष्ठाने में शिशिरादिक्रमो भवति। संशोधनव्यवस्थायान्तु प्राबड़ादिक्रमोऽयं शोधनानुकूलतया आचार्येण कल्पितो न पारमार्थिकः । ये तु प्रावृड़ादिक्रमं गङ्गायाः दक्षिणे कूले उत्तरे च शिशिरादिक्रम वदन्छि, वन्मते शोधनं प्रतीति ग्रन्थोऽनुपपन्नः। ....... गङ्गायां दक्षिण कूले। .........ऋतू तेषां प्रकीर्तितौ” इत्यादिग्रन्थेन देशभेदेनापि ऋतुक्रमः पारमार्थिको विधीयते। यथायमाचार्यस्य माभिमतः। प्रपञ्चितश्चायमर्थः सूतस्थान एव । अयं संशोधनकालोपदेशः अनात्ययिके व्याधौ. ज्ञेयः। आत्ययिके तु उष्णेऽपि काले संशोधनप्रवृत्तिर्भवत्येव । उक्तोऽयमर्थो रोगभिषगजितीये"भास्ययिक पुनः कर्मणि कामं ऋतु विकल्प्य कृत्रिमगुणोपधानेन यथत्तुं गुणविपरीतेन भैषज्यं संयोगसंस्कारप्रमाणविकल्पेन उपपाय प्रमाणवीर्यसमं कृत्वा सतः प्रयोजयेत्तमेन यत्नेन अवहितः" इत्यनेन ग्रन्थेन । कर्मणामित्यादौ अन्तरेषु इति वमनानन्तरं विरेचनानन्तरं वस्तौ च कर्तव्ये स्नेहस्वेदी यथोक्तविधानेन पुनः कर्तव्यो, न सकृत्प्रयुक्तेन स्नेहेन स्वेदेन पञ्चकर्माणि कर्तव्यानीत्यर्थः ।
कर्मणां वमनादीमामन्तरेण्वन्तरेषु चेति चक्रतः पाठः ।
For Private and Personal Use Only