________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shrik
पष्ट अध्याय:
सिद्धिस्थानम् । विधूय मानसान् दोषान् कामक्रोधभयादिकान् । एकाग्रमनसा पीतं सम्यग् योगाय कल्पते ॥ नरः श्वो वमनं पाता भुञ्जीत कफवर्द्धनम् । सुजरं द्रवभूयिष्ठं लघु शीतं विरेचनम् ॥ उक्लिष्टाल्पकफरवेन क्षिप्रदोषाः स्त्रवन्ति हि॥११॥१२॥ पीतौषधस्य तु भिषक् शुद्धिलिङ्गानि लक्षयेत् ॥ ऊर्द्ध कफानुगे पित्ते विपित्तानुगते त्वधः।
हृतदोषं वदेत् काश्य दौर्बल्यश्चात्मलाघवम् ॥ - वामयेत् तु ततः शेषमौषधं न त्वलाघवे।
स्तैमित्येऽनिल सङ्ग च निरुद्वारे च वामयेत् ॥ गङ्गाधरः-वमनविरेचनौषधपानक्रममाह-विधूयेत्यादि। तत्काल मानसान दोषान् रजस्तमोजातान् कामादीन् विधूयोद्रिक्तभावान निवर्त्य वमनमौषधं श्वः परदिने पाता पास्यति यो नरः स पूर्व दिन कफवद्धनम्, तथा विरेचनं पाता नरः मुजरमित्यादिगुणमाहारं भुञ्जीत । कस्मात् ? हि यस्मात् उक्लिष्टाल्पकफत्वेन वमनौषधेन दोषाः क्षिप्रं सवन्ति ॥ ११ ॥ १२॥ .. ... गङ्गाधरः-ततः शुद्धिलिङ्गानि लक्षयेत् । तद यथा-ऊद्ध मित्यादि। कफानुगे पिने उर्द्ध वमनेनो मागते हृतदोष वदेत् । तथा विपित्तानुगतेऽध आगते मल विरेचनेन हृतदोष वदेत् । तथा कार्य दोब्बल्यम् आत्मलाघवं देहलघुताच चेत, ततः शेषं वमनौषधं वामयेत्। न तु गावस्यालाघवे शेषमौषधं वामयेत् । माता; मानायाः प्राशस्त्यं द्रव्यादिसंस्कारविशेषाधीनम् । एवं शोधने मासावत्वं परिभाषित जयम्। एकाममनसेति यदुक्तं तद् विवृणोति विधूयेत्यादि। वमनविरेचनयोः पूर्वदिने यथा भोकव्यवदाह नर इत्यादि । एतत् प्रागुक्तमपि प्रकरणवशात् विशेषाभिधितूसया पुनरभिधानम् । गवा पातुकामः । द्रवमूयिष्ठम् इति च्छेदः । विरेचनं यतो लघु शीतं चातो भुञ्जीतेति सम्बन्धः। एवम्भूतभोजनोपपत्तिमाह-उत् क्लष्टे त्यादि। उक्लिष्टाल्पकफत्वेनेति वमनं प्रति तु उक्लिष्कफरवेन, विरेचनं प्रति तु अल्पकत्वेन ॥१०-१२॥
पाणिः-वमनविरेचनयोः शुद्धिलिङ्गानि यद्यपि प्रागुक्तानि, तथापि इह शेषौषधदानादि. विशोषात पुमाभिधानम्-पीतोपचस्येत्यादिना। कफानुगे पित्ते ऊर्द्ध हृतदोषं वदेत् । दिन
For Private and Personal Use Only