________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अध्यायः ]
सिद्धिस्थानम् ।
मूत्रश्यामात्रवृत् त्सिद्धो यवकोलकुलत्थवान् । तत् सिद्ध तेल मिष्टोऽत्र निरूहः सानुवासनः ॥ १६ ॥ कण्ठादागच्छतः स्तम्भः कण्ठग्रहविरेचनैः । छर्दिनोभिः क्रियाभिश्च तस्य कुर्य्यान्निवर्त्तनम् ॥ १७ ॥ यस्य नोपद्रवं कुर्य्यात् स्नेहवस्तिरनिःसृतः । सर्वोऽल्पो वावृतो रौक्ष्यादुपेक्ष्यः स विजानता ॥ १८ ॥
३६६१
तत्र चिकित्सामाह - मूत्रेत्यादि । अत्राभुक्ते वस्तिस्नेहव्यापदि श्यामारुणमूलत्रिद्वयं यवकोलकुलत्थान गोमूत्रश्चाष्टगुणे जले पक्त्वा चतुर्थभागशेषे काथे युक्ता सन्धवमधुघृतं दत्त्वा मथित्वा सिद्धो निरूहः । तत्कल्कः सिद्ध ं तत्काथे च चतुगुणे पक्क ं तलमनुवासनमिति सानुवासनो निरूह इष्टः ॥ १६ ॥
गङ्गाधरः - कण्ठादित्यादि । कण्ठादागच्छतः स्नेहस्य स्तम्भस्तत्क्षणं कण्ठदेशग्रहणेन कार्य्यः पश्चात् विरेचनेनेति । तथा च्छर्द्दिघ्नीभिः क्रियाभिश्च तस्य कण्ठादागमनस्य निवर्त्तनं कुर्य्यात् । इति षण्णां व्यापदां लक्षणं चिकित्सितश्वोक्तम् ॥ १७ ॥
गङ्गाधरः - यस्येत्यादि । यस्य वस्तिस्नेहः सर्व्वे वाल्पो वाप्यनिःसृतो नोपद्रवं कुर्य्यात् तस्य स आवृतः स्नेहो रौक्ष्यात् रौक्ष्यं कर्म प्रकृत्य उपेक्ष्यः स्यात् ॥ १८ ॥
For Private and Personal Use Only
नासादिभ्यः, एतोति निर्गच्छति । अपिशब्दान्मुखादिनिर्गमनस्य कादाचित्कत्वं दर्शयति । तत् सिद्धतैल इति मूखश्यामादिसाधिततैलेन युक्तः । सानुवासन इति तत्सिद्धतैलेनैवानुवासनं देयम् । आगच्छत इत्यागमनसमय एवं स्तम्भादि कर्त्तव्यम् । स्तम्भो व्यजनोपलशीतलजलसेकादिना । कण्ठग्रह ऊर्द्ध गमनप्रतिषेधार्थं कण्ठपीड़नम् । छर्दिनः क्रियाइछद्दि श्विकिसिते 'मनोऽभिघाते मनोऽनुकूलाः' इत्यादिन! 'सुख एव जेतुम्' इत्यन्तेनोक्ता इहाभिप्रेता ज्ञेयाः ॥ १६ ॥१७॥ चक्रपाणिः - वाताथावृतस्नेहप्रवर्त्तनमभिधाय अप्रवर्त्तनीयरने हमाह-यस्य नोपद्रवमित्यादि । मोपद्रवं कुर्य्यादिति अनिःसृतोऽपि स्तम्भ रुगादीनूह तान्न कुर्य्यात् । अल्पो वावृत इति स्तोकनिःसृतः स्तोकश्च वृतः । वृतस्यापि स्तम्भाद्युपद्रव करणे हेतुमाह - रौक्ष्यादिति तदात्यर्थ रूक्षतया शरीरस्य तिष्ठनपि स्नेहो न व्यापदमावहतीत्यर्थः । उपेक्ष्य इति न तत्र यथोक्त वातावृतस्नेह चिकित्स कर्त्तव्येत्यर्थः । अन्यत्राप्युक्तम्- “ अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति । कुर्य्याद वस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत्” इति ॥ १८ ॥