________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्व अध्याय ? चिकत्सितस्थानम्। २३७५ सुखाः सहायाः परपुष्टघष्टाः फुल्ला वनान्ता विशदानपानाः । गान्धर्वशब्दाश्च सुगन्धमाल्याः सत्त्वं विशालं निरुपद्रवञ्च ॥ सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं समिहात्मजस्य । वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम् ॥१४॥
भवति चात्र। प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च। माषपर्णभृतीयेऽस्मिन् पादे शुक्रबलप्रदाः ॥१५॥ इति चिकित्सितस्थाने द्वितीयाध्याये माषपर्णभृतीय
__ वाजीकरणपादस्तृतीयः॥३॥ प्रविरलभावो गुरुवल्लभराहित्यश्च। सुखाः सुखदाश्च सहायाः। परपुष्टानां कोकिलानां घुष्टं । यत्र तेऽथवा परपुष्टः घुष्टा नादिताः फुल्ला नानाविधपुष्पलतापतानैः प्रफुल्लाश्च विशदानपानं यत्र तथाविधाश्च गन्धवंशब्दाश्च सुगन्धमाल्याश्च वनान्ताः। विशालं विपुलसत्त्वगुणं निरुपद्रवञ्च सत्त्वं मनः । सिद्धार्थता सम्पादितस्वप्रयोजनसमूहता। अभिनवश्च कामः नवोऽभिलाषः कन्दपो वा। स्त्री च निरुक्ता। एतत् सर्व नराणामात्मजस्य कन्दर्पस्यायुधम् इत्यर्थः। तत्र हर्षकारणमाह-वयो नवमित्यादि। नवं वयो जातमदः कालो वसन्तादिः नराणां हर्षस्य लिङ्गोद्गमस्य परमा योनिः ॥१४॥ - गङ्गाधरः-पादार्थमुपसंहरति-भवति चात्र इत्यादि। प्रहर्षयोनय इति । दश पञ्च चेति पञ्चदश योगाः॥१५॥ .. गङ्गाधरः--पादं समापयति इतीत्यादि। .
इति वैद्यश्रीगङ्गाधरकविराजक विरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सितर ....... स्थाने माषपर्णभृतीयवाजीकरणपादस्तृतीयः ॥३॥ 'वल्लभाः' इत्यन्तञ्च विधानं हेसन्तशिज्ञिरयोज्ञेयम् । सङ्गोचं कुङ्कु मम्, सङ्कोचागुरुणोः समालभनाथै वल्लभा यासु निशासु तास्तथा। सुखा इत्यादि ग्रन्थविधानं वसन्ताभिप्रायाभिधानमन्यसाप्यविरुद्धार्थे। आत्मजस्येति मन्मथस्य। जातमदः कालो वसत्तादिः ॥ १४ ॥ १५ ॥
___ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां......... ! घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां वाजी msगाण
व्याख्यायां माषपर्णभृतीयपादव्याख्या ॥
For Private and Personal Use Only