________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३७४
चरक संहिता |
अभ्यङ्गोत्सादनस्नान-गन्धमाल्यविभूषणैः । गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः ॥ विहङ्गानां रुतैरिष्टः स्त्रीणाञ्चाभरणस्वनैः । संवाहनैर्वर स्त्रीणामिष्टानाञ्च वृषायते ॥ १३ ॥ मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः । जात्युत्पलसुगन्धीनि शीतगर्भगृहाणि च ॥ नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः । उन्नतिनीलमेघानां रम्यचन्द्रोदया निशाः ॥ वायवः सुखसंस्पर्शाः कुमुदाकर गन्धिनः । रतिभोगक्षमा रात्राः सङ्कोचागुरुवल्लभाः ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ वाजीकरणपाद ३
स्वभावाः । ये च वयस्या भक्ताः स्वभक्तिमन्तः । ये प्रियाः प्रियंवदाश्च ये वयस्यास्ते ते सर्व्वे सुवयस्यास्तैः सह विस्रब्धो नरो वृषायते ॥ १२ ॥
For Private and Personal Use Only
गङ्गाधरः – वयस्यदृष्यमुक्त्वा परानाह - अभ्यङ्गेत्यादि । इष्टैरिति पदम् अभ्यङ्गादिषु सर्व्वत्र योज्यम् । संवाहनैरिति स्त्रीजनकत्तु कः पाणिस्पर्शसुखजनक कैर्वा पादाङ्गाभिद्दनैर्नरो वृषायते ॥ १३ ॥
गङ्गाधरः - मत्तेत्यादि । नराणामिहैतत् सर्व्वमात्मजस्य कन्दर्पस्यायुधमस्त्रम् । ननु किं सर्व्वं कन्दर्पस्यायुधमित्यत आह-मत्तेत्यादि । मत्तैर्द्विरेफैराचरितं यत्र ते, सपद्माश्च सलिलाशयाः कन्दर्पस्यायुधम् । जात्युत्पलैः सुगन्धीनि चन्दनोशीरादिसिक्त जलजलधारादिभिः । शीतानि च गर्भेऽभ्यन्तर देशे यानि गृहाणि । फेनोत्तरीयाश्च नद्यः । नीलसानवो गिरयः नीलवर्णशोभितसमदेशाः पर्व्वताः । रम्यचन्द्रोदयाश्च निशाः । सुखसंस्पर्शाः कुमुदाकर गन्धिनश्च वायवः । राज्यः पुना रतिभोगक्षमा मन्दमन्दपतज्जलधरजलबिन्दु - चारुशब्दादिना रतेर्भोगाय क्षमा योग्या राज्यः । सङ्कोचाः प्रविरलाः अगुरुवल्लभा गुरवो मातापित्रादयो वल्लभा भत्त कर्त्रादयश्च तद्रहिताः । कृतार्था व्याकुलमनसः कानक्षमाः । वृषायत इत्युपचितप्रवृत्युन्मुखशुक्री
सिद्धसाध्याः । भवति ॥। १० - १३ ॥
चक्रपाणिः - 'मत्तद्विरेफाचरिताः' इत्यादि 'गृहाणि च' इत्यन्तं योग्यतया ऋतुविभागेनानुक्तमपि ग्रीष्म एव ज्ञेयम् । तथा मेघानामित्यन्तं प्रावृषि, तथा 'गन्धिनः' इत्यन्तं शरदि ।