SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३७६ चरक-संहिता। [ वाजीकरणपाद अथातः पुमान्जातबलादिकं वाजीकरणपादं ब्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥१॥ पुमान् यथा जातबलो यावदिच्छन् स्त्रियो व्रजेत् । यथा चापत्यवान् सद्यो भवेत् तदुपदेक्ष्यते ॥ २॥ न हि जातबलाः सर्वे नराश्चापत्यभागिनः । वृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः॥ सन्ति चाल्पायुषः स्त्रीषु बलवन्तो बहुप्रजाः। प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः ॥ गङ्गाधरः-अथ माषपर्णभृतीयवाजीकरणपादव्याख्यानानन्तरमतो वाजीकरणाधिकाराद्धेतोः पुमान्जातबलादिकं वाजीकरणपादमाह-अथात इत्यादि। पुमान्जातबल इत्यादि अधिकृत्य कृतं वाजीकरणपादं व्याख्यास्यामः। शेषं पूर्ववत् ॥१॥ 'गाधरः-पुमानित्यादि। यथा येन प्रकारेण जातबलः जातं बलं मैथुनसामर्थ्य यस्य स जातबलः सन् स्त्रीणां यावद् गन्तुमिच्छन् भवति तावतीः स्त्रियो व्रजेत्, यथा यस्मिन् प्रकारे च सद्योऽपत्यवान् अमोघवीय्येवान् मैथुनमात्रेण गर्भाधानकृद् भवेत् तदुभयं वाजीकरणमुपदेक्ष्यते ॥२॥ गङ्गाधरः-ननु कथं देहबलकरं नोपदेक्ष्यते मैथुनबलकरं सद्योऽपत्यकरच वा पृथङ नोपदेक्ष्यते इत्यत आह-न हीत्यादि। हि यस्मात् । सव्वं नरा न जातबला न स्त्रीणां यावदिच्छन्तो मैथुनसमर्थाः, सवै जातबलादयोऽपि नापत्यभागिनः। नन्वेवं कुत्र तदाह-हदित्यादि। वृहच्छरीराः बलिनश्च देहवलवन्तश्च सन्ति पुरुषाः परन्तु नारीषु मैथुने दुर्बलाः। सन्ति च केचित् पुरुषा नारीषु बलवन्तो बहुप्रजाश्च किन्तु अल्पायुषः। केचित् पुरुषा नारीषु चक्रपाणिः-पारिशेष्यात् पुमान्जातबलादिकमुच्यते, पुमान् जातबलादयः शब्दा भस्मिन् विद्यन्ते इति पुमान्जातवलादिकः, आसिक्तक्षोरिकवच्छब्दसिद्धिः। जातबलत्वे सस्पपि नावश्यमतिभोगित्वं भवतीति कृत्वा 'यथा जातबलः' इत्युक्तेऽपि 'यथा चापत्यवान् भवति' इत्युक्तम् । तदेव शुक्रबलं स्फोटयति-न होत्यादि। 'न हि जातबलाः सः' इत्येकः पक्षः, तथा 'नापत्यभागिनः सर्वे' इति द्वितीयः पक्षो ज्ञेयः। एतच्छुकवलप्रसङ्गादपरानपि शुक्रबलविशेषानाह-वृहच्छरीरा इत्यादि। अल्पबला अल्पशरीरा एते च शुक्रसारस्वेन • पाल्पबलाः इति पाठश्च रक्ष्यते ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy