SearchBrowseAboutContactDonate
Page Preview
Page 1454
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इथ अध्यायः ३य अध्यायः) सिद्धिस्थानम्। ३६८३ रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे तु यूरः। तथानुवास्येषु च विल्वतैलं स्याजोवनीयं फलसाधितञ्च ॥ ३४॥ तत्र श्लोकः। इतीदमुक्तं निखिलं यथावत् वस्तिप्रदानस्य विधानमग्राम् । योऽधीत्य विद्वानिह वस्तिकर्म करोति लोके लभते स सिद्धिम्॥३५ इत्यग्निवेशकृत तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने वस्तिसूत्रीयसिद्धिर्नाम तृतीयोऽध्यायः॥३॥ गङ्गाधरः-निरूहानन्तर प्रतिभोजनमाह-रसेनेत्यादि। तथा तेन प्रकारेणानुवास्येषु विल्वतलं जीवनीयतलं फलसाधितश्च तलं स्यादिति ॥३४॥ गङ्गाधरः-अध्यायाथेमाह-तत्र श्लोक इति । इतीदमित्यादि ॥३५॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकातिसंस्कृते । सिद्धिस्थानेऽष्टमेऽभाप्ते यत्नाद दृढ़बलेन तु । प्रतिसंस्कृत एवात्र वस्तिसूत्रीयसिद्धिके। तृतीयेऽध्याय एवास्मिन् वैद्यगङ्गाधरण तु। कृते जल्पकल्पतरौ सिद्धिस्थानेऽष्टमेऽत्र तु। स्कन्धे हि वस्तिसूत्रीया सिद्धिजल्पशाखा किल। ___ तृतीयषा समाप्ताभूदिति यत्नेन धीमता ॥३॥ चक्रपाणिः-सम्प्रति वातादिभेदेन प्रतिभोजनं विशिष्टं तथानुवासनचाह-रसेन धात. इत्यादि। प्रतिभोजनं निरूहानन्तरभोजनम्। वाते विल्वतैलानुशासनम्, पित्ते जीवनीयसाधितम्, कफेच मदनफलसाधितम् । अत्र विस्वतलादीनि वक्ष्यमाणानि व्याख्यानयन्ति । तेन स्नेहव्यापत्सिद्धौ यद् वक्ष्यति · दशमूली' इत्यादिना विल्वतैलम् । जीवनीयञ्च “जीवन्ती मदनम्" इत्यादिना वक्ष्यमाणयमकम्, तथा "मदनैर्वाऽऽम्लसंयुक्तः" इत्यादिना वक्ष्यमाणं. तैलं ज्ञेयम् ॥३४॥३५॥ इति महामहोपाध्यायचरक चतुराननश्रीमचक्रपाणिदत्तविरचित्तायामायुम्वददीपिकायां .. चरकतात्पर्य्यटीकायां सिद्रिस्थानव्याख्यायां वस्तिसूत्रीयसिद्रिव्याख्या नाम तृतीयोऽध्यायः ॥३॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy