________________
Shri Mahavir Jain Aradhana Kendra
३६८२
www.kobatirth.org
चरक संहिता |
[ वस्तिमूलीयसिद्धिः
ዘ
पुनर्नवैरण्डवृषाश्मभेद-वृश्वीर भूती कबला पलाशाः । द्विपञ्चमूलानि पलांशिकानि सुराणानि धौतानि पलानि चाष्टौ विल्वं यचान् कोलकुलत्थधान्य- फलानि चैकप्रसृतोन्मितानि । पयोजलार्द्धाढकयोः * भृतं तत् क्षीरावशेषं कृतवस्त्रपूतम् ॥ वचाशताह्वामर दारुकुष्ठ-यथाहसिद्धार्थक पिप्पलीनाम् । ... कल्कैर्यमाभ्या मदनैश्च युक्तं नात्युष्णशीतं गुड़सैन्धवाक्तम् ॥ चौद्रस्य तैलस्य च सर्पिषश्च तथैव युक्तं प्रस्तत्रयेण । दयान्निरूहं विधिना विधिज्ञः स सर्व्वसंसर्गकृतामयघ्नः ॥३२॥ स्निग्धोष्ण एकः पवने निरूहो द्वौ खादुशीतौ पयसा च पिते । त्रयः समूत्रा कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः ॥३३
7
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः- पुननेवेत्यादि । पुनर्नवादीनि द्विपञ्चमूलान्तानि प्रत्येकं पलाशिकानि । बिल्वं शलाटुरूपमष्टौ पलानि यवांश्चाष्टौ पलानि कोलादिमदन कलान्तानां प्रत्येकं प्रसृतमानम्, तत् सर्व्वं प्रत्येकेन पयोजलार्द्धादकयोरर्द्धाढके पयसि चार्द्धाद के जले च भृतं क्षीरावशेषमष्टशरावक्षीरशेषं कृतं वस्त्रपूतश्च वचादिमदनफलान्तः कल्कर्यु तं गुड़संन्धवयुक्तं क्षौद्रतलसर्पिषां प्रत्येकं प्रत मिलिला प्रसृतत्रयेण युक्तं नात्युष्णशीतं निरूहं दद्यात् ।। ३२ ।।
गङ्गाधरः - स्निग्धेत्यादि । पवने स्निग्धोष्णः एको निरूहो देयः । पित्ते पयसा स्वादुशीतौ द्वौ निरूद्दौ विधेयौ । कफे कटुकोष्णतीक्ष्णाः समूत्रालयो निरुहा विधेयाः, नातः परं विधेयमिति ॥ ३३ ॥
चक्रपाणिः - पुनर्नवेत्यादिकः सर्व्ववातादिक संसर्ग विषयः । वृश्वीरः श्वेरुपुनर्नवा । धान्यामि फलानि चेति धान्य फलानि । पयोजल द्वयादक योरिति समजल क्षीरद्विप्रस्थयुक्तम् ॥ ३२ ॥
चक्रपाणिः उक्तानामे रण्डादीनां वातादिहरवस्तीनां संख्याकल्पनां विशिष्ट दर्शवग्राहस्निग्धोष्ण इत्यादि । एक इत्येकपुटकः । पयसा चेति पयोयुक्तौ । कटुकोष्णतीक्ष्णत्वं कफहरज म्पयोगादेव शेयम् । न परं विधेया इत्यनेन तन्त्रान्तरविहितं चतुर्थवस्तिदानमत्य र्थशरीरहिंसकं निषधयति । तेन सुश्रुते - "द्वितीयं वा तृतीयं वा चतुर्थ वा यथाईतः । सम्ब निरूहलिङ्ग तु प्राप्ते वस्तिं निवर्त्तयेत्" इत्युक्तं चतुर्थदानमिति ॥ ३३ ॥
1
● पयोजलद्वयाढकयोरिति चक्रसम्मतः साधीयान् पाठः ।
For Private and Personal Use Only