________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६७६
चरक-संहिता। (वस्ति पूत्रीयसि । नात्युच्छ्रितं नातिनीचपादं सपादपीठं शयनं प्रशस्तम्। प्रधानमृतास्तरणोपपन्न प्राकशोर्षकं शुक्लपटोत्तरीयम् ॥ १८॥ भोज्यं पुनर्व्याधिमपेक्ष्य सम्यक् प्रकल्पयेद् यूषपयोरसादैः। सव्वेषु विद्याद् विधिमेतमाय वक्ष्यामि बस्तीनत उत्तरीयान् ॥ सम्यक् प्रणीताः खलु वस्तयो ये वातामयन्नाश्च बलप्रदाश्च ॥१६॥ द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूवशेषः। त्रिस्नेहयुक्तः प्रवरो निरूहः सव्वोनिलव्याधिहरः प्रदिष्टः ॥२०॥ ___ गङ्गाधरः-नात्युच्छितमित्यादि। दत्तस्तिकस्य शयनाथ शयनं नात्युच्छि तादिरूपं प्रशस्तं प्रकल्पयेत् । उत्तरप्रच्छदः शुक्लपटेन कार्यः ॥१८॥
गङ्गाधरः-भोज्यं पुनस्तस्य व्याधिमपेक्ष्य यूषादिभिः प्रकल्पयेत् । सर्वेषु वस्तिदानेष्वेतं विधिमाद्य विद्यात्, अथोत्तरीयानतः परानपरान् वस्तीन् वक्ष्यामि। ये वातामयना बलप्रदाश्च ॥१९॥
गङ्गाधरः-तद यथा-द्विपञ्चमूलस्येत्यादि । सच्छागमांसस्य द्विपञ्चमूलस्य इत्यष्टगुणाम्बुना पकस्य सपूव्वेशेष इत्यष्टभागशेषो रसस्त्रिभागः किश्चिदम्लयुक्तः त्रिस्नेहस्य घृततलवसानां मिलितानां चतुर्थभागः, वाते विडे तु चतुर्थभाग इति वचनात् ॥२०॥
चक्रपाणिः-सम्प्रति शयनविधिः क इति प्रश्नस्योत्तरमाह-नात्युच्छ्रितमित्यादि। पूर्व यः शयनविधिरक्तः, स तात्कालिकः, अयन्तूत्तरकालिक इति विशेषः । प्रधानं महत् मृदु चास्तरणं प्रधानमृद्धास्तरणम्, तेनोपपन्न युक्तम्। प्राक्शीर्षिकमिति "प्राच्यां दिशि स्थिता देवाः, पूजार्थञ्च तेषां प्राकशिराः शयने भवेत्" इति वचनात् ॥ १८ ॥ - चक्रपाणिः-यूषादिभोज्यविधानं यथाक्रमं कफे, पित्ते, वाते। किंवा अग्राहापेक्षं यथायोग्यतया व्याख्येयम् । यथोक्तविधानं वक्ष्यमाणविधिषु कर्त्तव्यतया दर्शयन्नाह-सर्वेष्वित्यादि । प्रधानमौतसर्गिकमिति यावत्। तेन विशेषविधानेनापवादोऽप्यस्य भविष्यतीति सूचयति ॥१९॥
चक्रपाणिः-के वस्तय इत्यादिप्रश्नस्योत्तरम्-द्विपञ्चमूलस्येत्यादि। अत्र मांसं दशमूलसमम्। रसः काथः। अम्ल काक्षिकादि। सपूर्वपेष्यमिति बलाथ क्तकल्कयुक्तः । सिस्नेहयुक्त इत्यनेन मजपरित्यागं सर्ववस्तिसिद्ध स्फारयति । उक्त मन्यत-"विज्ञेयः सिविधा स्नेहः वस्त्यर्थं मजवर्जितः" इति ॥ २० ॥
For Private and Personal Use Only