________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] सिद्धिस्थानम्।
३६७५ आ सप्ततेरुक्तमिदं प्रमाणमतः परं षोड़शवद विधेयम् । निरूहमात्रा प्रसृतप्रमाणा बाले च वृद्धद्ध च मृदुर्विशेषः ॥ १७॥ मानम्। तथाचप्रस्ताभिवृद्धिस्तु द्वितीयवर्षादिषु आ द्वादश। द्वादशवर्षवयः पर्यन्तमर्द्धप्रसृताभिवृद्धिरुत्तरोत्तर वर्षे वर्षे पलाभिटद्धिः। तेन द्वादशवर्षे द्वादश पलानि । द्वादशतो वयोवर्षात् पर त्रयोदशवर्षावधि आ अष्टादश अष्टादशवयोवषपय्यन्तं प्रसृताभिवृद्धिरेव, आ सप्ततेरेवेदम्, अष्टादशवर्षे चतुर्विशतिपलं भवति, तत् तु यावन्मानं स्यात् तावन्मानं सप्ततिवर्षपर्यन्तं न तु वृद्धिः स्यादिति, तथा च द्वादशप्रसृतमष्टादशवर्षे तावदेव पतिवर्षपय्यन्तं मानं न खभिवृद्धिः स्यात् । ततः परं षोडशवर्षवत्, यथा । श प्रसृतं मानं तथा चकसप्ततौ दशप्रसृतं मानम्, द्वासप्ततो नवामृतम्, ... वष्टप्रसृतम्, चतुःसप्ततो सप्तप्रसृतं, पश्चसप्ततो षट्प्रसृतं, ततः प्रतिवर्ष पलहासः षडशीतिवर्षपर्यन्तम्, ततः परं पलमात्र सर्वत्र वर्षेषु। विधेयमिति पूर्वपूर्वयुगटहत पुरुषाभिप्रायेण । निरूहमात्रेत्यादि । प्रस्तप्रमाणा निरूहमात्रा बाले च वृद्धे च मृदुविशेष एष इति । सुश्रुते च-द्वादशप्रसृतानि निरूहमात्रा तूत्तमा प्रोक्ता। दत्तादौ सन्धवस्याक्ष मधुनः प्रसृतद्वयम् । विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रस्तत्रयम् । एकीभूते ततः स्नेहे कल्कस्य प्रसृतं क्षिपेत् । सम्मूच्छिते कषायन्तु चतुःप्रमृतसम्मितम् । वितरेच तदावापमन्ते द्विपस्तोन्मितम् । एवं प्रकल्पितो वस्तिवादशप्रस्तो भवेत्। ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम् । अपहासे भिषक् कुर्यात् तद्वत् प्रसृतहापनम् । यथावयो निरूहाणां कल्पनेयमुदाहता। सन्धवादिद्रवान्तानां सिद्धिकाम भिषगवररिति ॥१७॥
एकोयमतं पठ्यते - "अदिक परमतं प्रमाणम्" इति। तथा सुश्रुतेऽपि "द्वादशप्रसृतं किञ्चित् त्रिंशत्पलमथापरे” इत्यादि। वस्तिमानं दर्शयितुमाह-मा सप्ततेरित्यादि। आ सप्ततेस्सदिति द्वादशप्रसृतमानं सप्ततिं यावद् भवति। षोडशवदिति दशप्रसृतप्रमाणम्। बालवृद्धयोर्यथोक्तप्रमृतमानविषयं दर्शयितुमेवान्यं विशेषमाह-निरूहमात्रेत्यादि । बालवृद्धयोर्यथोक्कैव प्रसृतमाता कार्या, विशेषेण मृदुस्तयोर्वस्तिः कार्यः । तीक्ष्णत्वमाईवकरञ्च विधानं वक्ष्यति-यत्"तीक्ष्णत्वं भूतविल्वादि-लवणक्षारसप फै। प्राप्तकालं विधातव्यं क्षीराधावं तथा' इति ॥१७॥
For Private and Personal Use Only