________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६७४
चरक-संहिता। वस्तिसूत्रोयसिद्धिः निरूहमात्रा प्रमृताईमाय वर्षे तथा प्रस्ताभिवृद्धिः।
आ द्वादश स्यात् प्रसृताभिवृद्धिराष्टादश द्वादशतः परं स्युः ।। इत्यष्टमो भागः पूरणार्थस्य लुम् । इति निरूहेषु द्रव्यमाना। अथ निरूहस्य क्योभेद मात्रामाह-प्रसृतार्द्धमित्यादि। आदेर वयोवर्षे प्रसृतार्द्ध निरूहमात्रा पल. प्रहणम्। वाते तु वृद्ध चतुर्थो भागः स्नेहचतुर्थो भागः प्रसृतद्वयम् । अष्टभाग इति साई प्रसृतः। अस्मिन्नर्थे हारीत:- "काथस्य पञ्चप्रसृता विभागाः स्नेहस्य षष्ठोऽधिके तु पित्ते। स्वस्थ च तत्तु पवने चतुर्थः कफेऽष्टमोऽत्यन्तगते विकल्पः" इति। एषा स्नेहमाता हीनमात्रेऽपि निरूहे क्वाथस्नेहयोरुक्तमात्रानुसारेण योजनीया। शेषाणान्तु मधुकल्कसैन्धवानामिह माता भनियमेनोक्ता, तेषामपि प्रकृत्यादिभेदेनानियतत्वात्। तेन मध्वादीनां प्रकृत्यायनुसारेण प्रकृतमानेन द्वादशप्रस्तत्वं पूरणीयम् । तत्र जतूकर्णप्रत्ययात् सर्वस कल्कपलद्वयं भवति। उक्त हि तन-"चतुम्चि शतिके पुटके पेष्याणां द्विपलं किञ्चिच्च मधुसैन्धवात्"। स्नेहो वक्ष्यमाणः । शेष कषायस्य। वाते तैलषट्पली स्वस्थे च, चत्वारि पित्ते घृतस्य, कफे खोणि तैलस्य इति । सैन्धवन्तु पर्षप्रमाणमस्ति । यतः सुश्रुते-"सैन्धवाक्षं समादाय मधुनः प्रसृतद्वयम्" इत्या
कम्। हारीते तु-"क्षौदन्तु देयं प्रसृतप्रमाणं द्वितीयमाहुर्लवणस्य चाक्षम्" इत्युक्तम् । सेन नानावादिना सैन्धवमधुकरुकानां यथोत्तकषायस्नेहकरुकमधुसैन्धवादीनां पूरितांशपूरणचावापैनैव कर्तव्यम्। भावापश्चातानुक्तोऽप्युत्तरख वक्ष्यमाणो वातादिभेदेन मांसरसक्षीरगोमूत्रादिको ज्ञेयः। वक्ष्यन्ति हि-स्निग्धोष्ण एकः पवने निरूहो द्वौ स्वादशीती पयसा च पित्ते। बयः समूताः कटुकोणतीक्ष्णाः कफे निरूहा न परं विधेयाः" इति। हारीतेऽप्युक्तम्-"स्नेहो गुड़ो मांसरसः पयश्च, अम्लानि मूत्राणि च सैन्धवञ्च । एतानि सर्वाग्यपि योजयीत निरूहयोगे मदनात् फलञ्च" इति। यत् तु तन्वान्तरे-द्वादशप्रसृतपूरणं प्रति प्रतिव्यविभागेनोक्कम्, यथा-दत्त्वादौ सैन्धवस्वाक्षं मधुनः प्रसृतद्वयम् । विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतवयम् । एकीभूते ततः स्नेहे कलकस्य प्रसृतं क्षिपेत् । सम्मूर्छितं कषायन्तु चतुःप्रसृतसम्मितम्। वितरेच्च
दावापमन्ते द्विप्रसृतोन्मितम् । एवं सुकल्पितो वस्तिदशप्रसृतो भवेत्" इति, तवातविषयमेव, स्नेहस्य वातघ्नत्वात् । किन्वत यच्चतुःप्रसृतं कषायस्य मन्यते, तस्मात् तदनुमतमेव । यदन्ये पठन्ति-"मधुस्नेहनकल्काख्य-कषायावापतः क्रमात् । बोणि षट् द्वेदश त्रीणि पलान्यनिलरोगिणाम्। पित्ते चत्वारि चत्वारि द्वे द्विपञ्च चतुष्टयम् । षटनीणि द्वे दश त्रीणि कफे चापि निरूहणम्" इति । तदस्मत्तन्तानुगनत्वादनुमतमेव। इदानी वयोभेदेन निरूहप्रमाणं दर्शयन्नाह-निरूहेत्यादि। आय वर्षे बालस्य पलमानं निरूहक्काथादि यथोक्तमानानुसारेण वक्तव्यम् । अर्द्धप्रसृताभिवृद्धिः ततः प्रतिवर्ष भवति। तेन द्वादशवर्षे घटप्रसृतो वस्तिर्भवति । द्वादशादृद्ध मष्टादशवर्ष पर्यन्तं प्रतिवर्ष प्रसृतवृद्ध्या द्वादशप्रस्तपूरणं भवति। द्वादशातः परं स्युः इत्यनेनाधिकप्रमाणवस्तिमानं महात्ययस्वकरत्वादननुगतं निषेधयति। तथा हारीते
For Private and Personal Use Only