SearchBrowseAboutContactDonate
Page Preview
Page 1442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः श्य अध्यायाः ] सिद्धिस्थानम्। ३६७१ पूव्व हि योज्यं मधुसन्धवाभ्यां स्नेहं सुनिम्मथ्य तथोदकल्कम् । विमथ्य संयोज्य पुन वैस्तत् वस्तौ निदध्यान्मथितं खजेन ॥१२॥ वामाश्रयोऽग्निग्रहणी गुदश्च तत्पार्श्वसंस्थस्य गुदोपलब्धिः । लीयन्त एवं बलयश्च तत्र सव्यं शयानेऽहति वस्तिदानम् ॥१३॥ विड्वातवेगो यदि चार्द्धदत्ते निष्कृष्य मुक्त प्रणयेदशेषम्। उत्तानदेहश्च कृतोपधानः स्याद् वीर्यमाप्नोति तथास्य देहम्॥१४ तस्माद युक्त्या सलवणं दद्यात् । सव्वमुपसहरति-तस्मादिति। सम पूर्वोक्तप्रतिषेधव्यतिरिक्तम् ॥११॥ गङ्गाधरः-आस्थापनद्रव्ययोगक्रममाह-पूर्व हीत्यादि। पूच मधुसन्धवाभ्यां सह स्नेहद्रव्य योज्यम, ततः परं तथोदकल्कं द्रवद्रव्यं यत् तथा कल्कद्रव्यं ताभ्यां सह योज्यम्, ततः स्नेह संयोज्य पुनस्तद्दवविमथ्य ततस्तस्माद यथारूप मात्रया गृहीला खजेन मथितं वस्तिपुटके निदध्यात् ॥१२॥ गङ्गाधरः-अथ वामपाश्र्चशयानस्य वस्तिदाने प्रयोजनमाह-वामाश्रय इत्यादि। पुरुषस्य वामभागे जाठराग्निश्च ग्रहणीनाड़ी च गुदञ्चेति त्रयम्, तस्मात् तवामपार्श्वशयितस्य गुदोपलब्धिः स्यात्। एवं तत्र गुदे तिस्रो गुदवलयो लीयन्ते लीना वर्तन्ते। तस्मात् सव्यं शयाने जने वस्तिदानमति ॥१३॥ गङ्गाधरः-विडित्यादि। वस्तावर्द्धदत्ते यदि विण्मृत्रादिवेगः स्यात् तदा वस्तिनेत्र गुदानिष्कृष्य तन्विहादिवेगे मुक्ते तदवशेषमशेष प्रणयेत् । दत्ते वस्ती - क्षामं पुरूषं कुर्यात्, लवणोऽतीति अतिमानलवणः, तस्मादिति यथोक्तविधानेषु दोषादर्शनात्, सुयुक्तमिति तिर्यकप्रणिधानादिरहितं शीतस्वादिरहितञ्च ॥ १० ॥1॥ चक्रपाणि:-'पूर्व हि दद्याद' इति ग्रन्थ केचिदनार्षमाहुः । तन्त्रान्तरेषु तु अस्यार्थस्य दृष्टत्वाद् युक्त एवायं पाठः । उच्यते हि सुश्रुते–'दत्तादौ सैन्धवस्याक्षं मधुनश्च पलद्वयम्। पात्रे तलेन मध्नीयात्' इत्यादि। पुन वैस्तमित्यत द्रवशब्देन काथस्यावयवस्य च ग्रहणम् ॥ १२॥ चक्रपाणिः-मपार्श्वशयनं यदुक्तम्, तस्य प्रयोजनमाह-वामाश्रये इत्यादि। वामाश्रये यस्माद ग्रहणीगुदे, तेन वामपाश्र्वसुप्तस्य ग्रहणोगुदे प्रकृतिस्थे भवतः, प्रकृतिस्थे च गुढे गुदस्य वस्तिना सम्यगुपलब्ध्या व्याप्तिभवति, तथा बलयश्च लीना भवन्ति, तेन सुखं वस्तिर्याति ग्रहणी. गुदयोः प्रकृतिस्थतया च वस्तिाप्य सुखं ग्रहणी भावयतीति बोद्धव्यम् ॥ १३ ॥ चक्रपाणिः-विड्वातत्यादौ निष्कृष्य मुक्त इति नलिकामाकृष्य विड्वातवेगे मुक्त। दत्से तु वस्तौ उत्तानदेहः कृतोपधानश्च स्यात्, एतत्करणप्रयोजनमाह-वीर्यमाप्नोतीत्यादि ॥ १४ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy