________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६७० . चरक-संहिता। (वस्तिसूत्रीयसिद्धिः तिर्यक् प्रपीडे तु न याति धारा गुदे व्रणः स्याञ्चलिते तु नेत्र । दत्तः शनैर्नाशयमेति वस्तिः कण्ठं प्रधावेदतिपीड़ितस्तु ॥१०॥ शीतस्त्वतिस्तम्भकरोऽतिदाहं मूच्छोश्च कुर्यादतिमात्रमुष्णः । स्निग्धोऽतिजाड्य पवनश्च रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम् । करोति मात्राभ्यधिकोऽतियोगं क्षामस्तु सान्द्रः सुचिरेण ति॥
दाहातिसारौ लवणोऽतिकुर्यात्
तस्मात् सुयुक्तं सममेव दद्यात् ॥ ११॥ कृष्टोऽपरिहार्यो मात्रावस्तिरिति। निरूहः शोधनो लेखी स्नेहनो हणो मतः। इति ॥८॥९॥. ___ गङ्गाधरः-ततोऽन्यथा वस्तिदाने दोषमाह-तिर्यगित्यादि । तिय्येक कला नेत्रं वरितमपीड़ने धारारूपेणास्थापनद्रव्यं नवाभ्यन्तरं याति, तस्मादृजुनेत्रं दद्यात् । प्रपीड़नकाले नेत्रे चलिते हस्तकम्पने नेत्राप्रवेधनेन गुदे व्रणः स्यात् । तस्मादकम्पवेपनहस्तेन दद्यात् । दत्त इत्यादि। शनरतिधीरं दत्तो वस्तिराशयं न याति। अतिपपीडितस्तु वस्तिः कण्ठं प्रधावेत् । तस्मान्नातिधीर नाति: द्रतं दद्यात् ॥१०॥
गङ्गाधरः-शीतलो वस्तिरतिशयश्चेत् स्तम्भकरः स्यान्न प्रत्यागछति । अतिमात्रमुष्णो वस्तिरतिदाहं मूच्छांच करोति, तस्मानात्युष्णशीतं वस्तिं दद्यात् । स्निग्ध इत्यादि। अतिस्निग्धो वस्तिर्जाड्य कुर्य्यात् । अतिरूक्षः पवनं कुर्यात् । तस्माद युक्त्या स्नेहं दद्यात् । तनुश्चाल्पश्च मात्रया लवणो यस्य स वस्तिरयोगं करोति, तस्मान्नातिद्रवं नातिसान्द्रं नात्यल्पलवणं वस्तिं दद्यात् । अभ्यधिकमात्रया वस्तिरतियोगं करोति। तस्मान्नात्यल्पनात्यधिकमात्रया वस्तिं दद्यात्। क्षामः क्षीणः सान्द्रश्च परितः मुचिरेण प्रत्येति तस्मादक्षीणम् असान्द्रं वस्तिं दधात् । दाहेत्यादि । अतिलवणो वस्तिहमतिसारञ्च कुर्याद लाघवं शीघ्रक्रियता। आदिशब्देन वस्तिग्रहणपीढ़नादि गृह्यते। विदर्शयनिह सम्पादयन, प्रपीत्य चैकग्रहणेन दत्तमिल्यनेन विश्वम्य पुनःपीड़नं वायुजनकं निषेधयति ॥ ८.९॥
चक्रपाणि:-तिर्यकप्रणिधानादिदोषमाह-तिर गिस्यादि। न यति धारेति तिर्यक पणि. धाने सति गुदबलीरोधान्न याति। अतिस्तम्भकर इति वस्तिहस्य स्तम्भं करोति, जाव्यमिति शरीरजढ़ता, सन्वल्पमावलवणस्त्वयोगमिति तनुर्वा, अपमालवणो वा, सान्द्रस्तनुविपरीता,
For Private and Personal Use Only