________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६७२
चरक संहिता। वस्तिसूत्रीयसिद्धिः एकोऽपकर्षत्यनिलं खमार्गात् पित्तं द्वितीयस्तु कर्क तृतीयः। प्रत्यागते चोषाजलावसिक्तः शाल्यन्नमद्यात् तनुना रसेन ।।१५।। जीणे तु सायं लघु चाल्पमात्रं भुक्तोऽनुवास्यः परिवृहणार्थम् । निरूहपादांशसमेन तैलेनाम्लानि लध्वोषधसाधितेन ॥ यत् कुर्यान् तदाह-उत्तानेत्यादि । दत्तवस्तिः पुमानुत्तानदेहः सन् कृतोपधानः सन् शयीत, तथा सति अस्य वस्तेर्वीय्य देहमामोति व्यामोतीत्यर्थः ॥१४॥ - गङ्गाधरः--एक इत्यादि। एको वस्तिर्दत्तः स्वमार्गादनिलमपकर्षति । द्वितीयो वस्तिदत्तः पित्तमपकर्षति। तृतीयो वस्तिदत्तः कफमपकर्षति । प्रत्यागत इत्यादि। प्रत्यागते वस्तौ पुमानुष्णजलावसिक्तः स्नातः शाल्यन तनुना घनभावरहितेन मांसरसेनाद्यात ॥१५॥
मलाधरः--जीण मध्याह्नमुक्ते सायं रात्रा लघु चाल्पमात्रं मुक्तः स पुमाननुवास्यः परिहणाथमिति । निरूहेत्यादि । तस्यानुवासनमात्रा दु निरूहपादांश
चक्रपाणिः-एको पकर्षतीत्यादि । एतद वातादिभेदेन एकादिवस्तिदानविधानम्, न तु सिदोषे प्रथमो वातं जयति, द्वितीयः पित्तं जयति इत्यादि व्याख्येयम्, यतः स्निग्धोष्ण एकः पवने समांसः' इत्यादिना पवनादिभेदेनैव संख्यानियमं करिष्यति। एवं स्त्रमार्गाच्चानिलमेको वस्तिरपकर्षति, पित्तं द्वितीयस्तु स्वमार्गादिति पित्तं द्वावेव जयतः, कर्फ लय एव जयन्ति इत्यादि ज्ञेयम् । स्वमार्गादिति स्वस्थानात् । यद्यपि च वस्तिः पक्वाशयगतमेव दोषं जयतीत्युक्तम्, तथापि पित्तादिस्थायेऽपि विशेषवस्तिविधिसामर्थ्याद दोषहरणमुच्यते, तेन उत्सर्गतोऽस्मिन् दोषहरणं विशिष्टविधानेन च स्थानान्तरगतदोषहरणं भवति। अयमों जतूक प्युच्यते-'वस्तिः कार्य सकृद्धस्तिस्थानयुक्त्यानिलादिषु' इति, अन द्वितीयः पित्तमपकर्षति, तृतीयः कफमपकर्षतीत्युच्यते। अवापि प्रथमस्य पित्तकफापहत्वमस्त्येव, परं द्वितीयेन पित्तापहरण तृतीयेन च कफापहरणं स्थानाप्रत्यारूच्या क्रियत इति कृत्वा द्वितीयः पित्तं हरति, तृतीयः कर्फ हरतीति चोक्तम् । पित्तकफयोश्च यद्यपि सुखं चिकितसितं वस्तिन भवति, तथापि वातावरके वातानुबन्धे वा पित्ते कफे तद वस्तिदानं ज्ञेयम् । उक्तञ्च सुश्रुते- 'वस्तिवाते च पित्ते च कफे रक्ते घ शस्यते' इति । शाल्या. मित्यादौ जीर्ण इति आस्थापनोपलेपे कोष्ठस्थे जीर्णे, न तु मांसरहादिभोजने। न च निरूदेण मनागुपहतस्य वह्नः पालनार्थ पेयादिक्रमस्ता क्रियते विरेचनवदिहामस्यामायात् । अतएव सुश्रुते पेयादिक्रमं त्यक्त्वा रसादिक्रम उक्तः । अनुवास्थः परिवहणार्थमित्यनेन परिवहणार्थमनुवासनं क्रियमाणनिरूहे तदहः कर्त्तामति दर्शयति। अतएवोपकल्पनीयेऽपि 'मरस्ततो निरूयानुवासनाई:' इत्यनेन तदहरनुवासनस्यावश्यकत्वमुक्तम् । जतूक ऽप्युक्तम्- 'जीणे सायं कृतानञ्च पुष्पर्थमनुवासयेत्' इति । निरूहपादांशसमेन बैलनेति निरूहपादप्रमागेन, चतुर्विशतिपले निरूहे षट्पलेन स्नेहेनेत्यर्थः, इयञ्चोत्तमा माता अनुवासनस्य । उक्त बन्यत्र-मुत्तमा षट्पली प्रोता ममात्रिकी
For Private and Personal Use Only