________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६६०
[ पञ्चम्यसिद्धः
चरक संहिता | शेषास्त्वहः, विशेषतस्तु शिरोदन्तमन्याह नुग्रहपीनसगलशुण्डिकाशा लूकशुकांत मिरवत्र्त्मरोग व्यङ्गोपजिह्विकार्द्धावभेदक - ग्रीवास्कन्धास्यनासिकाकर्णाचिमूर्द्धकपाल शिरोरोगादि तापतानकापतन्त्रकगलगण्डदन्तशूल हर्षचालाक्षिरागनाड्यर्बुदस्वरभेद - वाग्ग्रहगद्गदकथनादय ऊर्द्ध जनुगता वातविकाराः परिपक्काश्च एतेषु शिरोविरेचनं प्रधानतममित्युक्तम्, तात्तमाङ्गमनु प्रविश्य मज्जपेशीकाभिरासक्तं दोषं विकारमपकर्षति ॥२०॥
प्रावृट्शरवसन्तेष्वितरेष्वात्ययिकेषु रोगेषु नावनं कुर्य्याद ग्रीष्मे पूर्वाह्णे शीतै मध्याह्ने वर्षासु दुर्दिने वेति ॥ २९ ॥
गङ्गाधरः- शेषास्तु शिरोविरेचनाह भवन्ति । विशेषतस्तु शिरोरोगादिगद्गदकथनाद्यन्ता ये रोगास्तथोद्ध जगता ये वातरोगाः परिपकाः, एतेषु रोगेषु शिरोविरेचनं प्रधानतमं भवति । कथम् ? तद्धीत्यादि । हि यस्मात् तत् शिरोविरेचनम् उत्तमाङ्ग ं शिरोऽनुप्रविश्य मज्जाद्यासक्तं दोषं विकारकरमपकर्षति ॥२०
गङ्गाधरः- तत्र विशेषमाह - प्राहित्यादि । माषाश्रावणौ । आत्ययिकेषु रोगेषु शिरोविरेचनसाध्येषु पुनरितरेष्वपि ग्रीष्मवर्षाशिशिरेषु नावनं कुर्य्यात् । तद् यथा । ग्रीष्मे पूर्वाह्न इत्यादि ॥ २१ ॥
बुद्दिने च कृतस्य पूतिनस्यक स्वम्, प्रीष्मवर्षाकृतस्य तु शिरोरोगकर्त्ता स्वम् । अन्ये तु, 'अतुदुई नम्' इत्यनेन अवार्षिक दुद्दिनमाहुः ॥ १८ ॥ १९ ॥
६
Acharya Shri Kailassagarsuri Gyanmandir
1
चक्रपाणिः -- शिरोदन्तेत्यादिना विशेषेण शिरोविरेचनाहनाह । शिरोदन्तमन्याभिः स्तम्भ - शब्दः सम्बध्यते । पीनसोऽल पक्कप्रतिश्यायः, तरुणे च प्रतिश्याये शिरोविरेकनिषेध इति न विरोधः । अपतन्त्रको ऽपतानकभेद एव निःसंज्ञः । उक्तं हि - "निःसंज्ञः सोऽपतन्तकः" इति । शूलहर्षचाला दन्तेन सम्बध्यन्ते । राजी नेत्रराजी नेत्ररोगविशेषः । वातविकारेऽप्यत विरेचनं स्थानसम्बन्धागतश्लेष्मवात हन्तृत्वेनैवोपपन्नम् । मुखादीषिकामिवासक्तामिति मुखात् शरावयवाद् यथा देविका शरिका आसक्ता आकृष्यते मुआनुपघातेन, तथा शिरसि पक्को दोषो हियत इत्यर्थः ॥ २० ॥
चक्रपाणि:- अनुतौ शिरोविरेचनं निषिद्धमवस्थावशेन विधानमाह - प्रावृदित्यादि । इसरास्थिति हेमन्तग्रीष्मवर्षासु । आत्ययिकेष्वितिवचनादनात्ययिकेषु गदेषु निषेधयति । आत्यकेिऽपि शीतादिप्रतीकारार्थमाह-कृषिमगुणोपधानादिति । कृत्रिमगुणोपधानं रोगभिषग* सुआदीषिकामिवासक्तमिति चक्रष्टतः पाठः ।
For Private and Personal Use Only