________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य भध्यायः] सिद्धिस्थानम्।
३५५६ दण्डहतव्यवायव्यायामपानक्लान्तनवज्वरशोकाभितप्तविरिक्तानुवासितगर्भिणीनवप्रतिश्यायाती अनृतुदुहिने चेति ॥१८॥ - तत्राजीणिभुक्तभक्तयोर्दोष ऊर्द्धवहानि स्रोतांस्यावृत्य कासश्वासच्छदि प्रतिश्यायान् जनयेत्। पीतस्नेहमद्यतोयपातुकामानां कृते च पिबतां मुखनासास्रावाद्य पदेहतिमिरशिरोरोगान् जनयेत्। स्नातशिरसः कृते च स्नातस्य प्रतिश्यायं क्षुधातस्य वातप्रकोपं तृष्णार्तस्य पुनस्तृष्णाभिवृद्धि मुख: शोषञ्च श्रमातमत्तमूर्च्छितानामास्थापनोक्तदोषं शस्त्रदण्डहतयोस्तीव्रतरां रुजं जनयेत् । व्यवायव्यायामपानक्लान्तानां शिरःस्कन्धनेत्रोरपीड़नं नवज्वरशोकाभितप्तयोरुष्मा नेत्रनाड़ीरनुसृत्य तिमिरं ज्वरवृद्धिश्च, विरिक्तस्य वायुरिन्द्रियोपघातमनुवासितस्य कफः शिरोगुरुत्वकण्डू क्रिमिदोषान् जनयेत् । गर्भिण्या गर्म स्तम्भयेत्, स काणः कुणिः पक्षहतः पीठसो वा स्यात्, नवप्रतिश्यायातस्य स्रोतांसि व्यापादयेदनृतुदुर्दिने च शीतदोषात् पूतिनस्यं शिरोरोगश्च स्यात्। तस्मादेते न शिरोविरेचनार्हाः ॥ १६॥ भक्तादयो नवप्रतिश्यायान्ता न शिरोविरेचनार्हाः, अनृतुदुर्दिने चेति । तत्राजोर्णिनो भुक्तभक्तस्य च पीतस्नेहस्य मद्यपातुकामस्य तोयपातुकामस्य 'च शिरोविरेचनार्हाणां कृते शिरोविरेचने जलं पिवतां मुखस्रावादीन् जनयेत् दोष इति पूर्वेणान्वयः। एवं स्नातशिरसः। शिरोविरेचनाहेस्य कृते च शिरोविरेचने स्नातस्य दोषः प्रतिश्याय जनयेत्। सर्वत्रोत्तरत्र दोषो जनयेदिति योजना। स गर्भः काणः स्यात् कुणिः कुनखः स्यात् ॥ १८ ॥ १९ ॥ पानकामाः। पानक्लान्तो दिनान्तरेऽपि पानजव्याधिपीडितः। अनुतौ शीतग्रीष्मवर्षासु। दुहिने इति मेघाच्छादितेऽह्नि । कृते पिबतामिति शिरोविरेचने कृते स्नेहान् पिबतामित्यर्थः । कुणिः कुन्जित. कर।। पीठसी पक्षः। अनुतौ दुहिने इत्यादौ शीतदोषानित्यनेन शीतकालदीयमानस्य
For Private and Personal Use Only