________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६५६
चरक-संहिता। (पञ्चकर्मीयसिद्धिः तत्राजार्णातिस्निग्धप तस्नेहानां दूष्योदर मूर्छा श्वयथर्वा स्यात्। उक्लिष्टदोषमन्दाग्न्योररोचकास्तीवाः। यानकान्तस्य क्षोभव्यापन्नो वस्तिराशु देहं शोषयेत्। अतिदुर्बलक्षुत्तृष्णाश्रमार्त्तानां पूर्वोक्तो दोषः स्यात् । अतिकृशस्य काय पुनर्जनयेत्। पीतोदकभुक्तभक्तयोरुतिश्योद्धमधोवा वायुर्वस्तिमुक्षिप्यैव क्षिप्रं वस्तिं घोरान् विकारान् जनयेत् । वमितविरिक्तयोस्तु रूदं शरीरं निरूहः क्षतं क्षार इव निईहेत् । कृतनस्तःकर्मणो विभ्रशं संनिरुद्धस्रोतसं कुर्यात् । ऋद्धातिभीतयोर्वरितरूद्ध मुपनवेत् । मत्तमूच्छेितयोभृशं विचलितायां संज्ञायां चित्तोपघातव्यापत् स्यात्। प्रसक्तच्छदि निष्ठीविकाकास सहिका नां पुनरूद्ध भूतोवायुरूद्ध वस्तिं नयेत्। बद्धछिद्रोदकोदराध्मातानां भृशतरमाध्माप्य वस्तिः प्राणान् हिंस्यात्। अलसकविसूचिकामप्रजातातिसारिणामामकृतदोषः स्यात् । मधुमेहकुष्ठिनोाधेः पुनर्वृद्धिरिति ; तस्मादेते न स्थाप्याः ॥ १३॥
गङ्गाधरः-अथानास्थाप्यानाह-अनास्थाप्यास्वित्यादि। अजीर्णादिकुष्ठान्तिा अनास्थाप्याः॥१२॥
गङ्गाधरः-तत्र दोषमाह-तत्राजीणत्यादि। पूर्वोक्तदोष इति विरे. चनोक्तदोषः। दुब्बलानामास्थापनासहखात् पाणोपरोधः। क्षुत्तृष्णाश्रमार्ता नाश्च तदसहलात् प्राणोपरोधः स्यादिति। क्षिप्रवस्तिं वस्तिरोगविशेषम् ॥१३॥
दूल्योदरमिति समिपावोदरम्। यानं स्थादियानम्। दहेद् वस्तिरिति शेषः। विभ्रंशमित्या इन्द्रियाणामिति शेषः। ऊ मुपल्लवेदिति मुखादिभिरुद्गच्छेत्। मत्तमूर्छितयोापत् स्वादिति मूछ रूपा व्यापत् स्यादित्याहुः। बद्धोदरादाबामातानां वस्तिनिषिध्यते। तेन "स्निग्धाय बद्धोदरिणे” इत्यादिना यावच्च "निरूहं सानुवासनम्" इति ग्रन्थन निरूहविधाममविरुद्धं भवति। अन्ये तु दराध्याय एव बद्धोदरिणे सविबन्धोदरिविषयं निरूहं वर्णयन्ति, सेनान सामान्येन बद्धोदरे निरूनिषेधो न विरुद्धः ॥ १२॥ १३ ॥
For Private and Personal Use Only