________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२थ अध्यायः ].
३६५५
सिद्धिस्थानम् । चतादीनां गर्भिण्यन्तानां छद्द नोको दोषः स्यादिति । तस्मादेते न विरेच्याः ॥ १० ॥
शेषास्तु विरेच्याः । कुष्ठज्वरमेहोर्द्ध रक्तपित्तभगन्दराशब्रध्नलोहगुल्मार्व्वद - गलगण्डग्रन्थि-विसूचिकालसक-मूत्राघातक्रिमिकोष्ठविसर्प- पाण्डुरोग - शिरः पार्श्वशूलोदावर्त्तनेत्रास्यदाह-हृद्रोगव्यङ्गनीलिकाः, श्रवणगुदमेट्पाकहलीमकश्वासकासकामलापच्यपस्मारोन्मादवातरक्त-योनिरेतोदोष-तैमिर्थ्यारोचकाविपाकच्छर्दि - श्वयथूदरविस्फोटकादयः, पित्तव्याधयो विशेषेण महारोगा - ध्यायोक्ताश्च । एतेषु हि विरेचनं प्रधानतममित्युक्तमग्न्युपशमे - ऽग्निगृहवत् ॥ ११ ॥
अनास्थाप्यास्त्वजीर्णाति स्निग्धपीतस्नेहो क्लिष्टदोषाल्याग्नियानकान्तातिदुर्बल- चुत्तृष्णाश्रमार्त्तातिकुश-भुक्तभक्तपीतोदकवमितविरिक्त कृतन स्तःकर्मक द्धभीतमत्तमूर्च्छिताः, प्रसक्तच्छद्दिर्निष्ठीविका कासश्वास हिक्का - वद्धछिद्रदकोदराध्मानालसकविसू चिकामप्रजातातिसार मधुमेहकुष्ठार्त्ताश्च ॥ १२ ॥
ܘ
Acharya Shri Kailassagarsuri Gyanmandir
दारुणकोष्ठखमतिक्रूरकोष्ठत्वम् । च्छदनोक्ताः स्ववदोषाः क्षतादीनां स्युरिति ॥ १० ॥
गङ्गाधरः- शेषास्तु विरेच्या इति । तत्र च कुष्ठादयो रोगा विस्फोटमकारा आदिना गृह्यन्ते, विशेषेण महारोगाध्यायोक्ताथवारिंशत् पित्तव्याधयः । एतेषु विरेचनं प्रधानतमम् । कथमित्यत आह- अग्न्युपशमेऽग्निगृहचदिति । यथा अग्निगृहमग्निनोत्तप्तमनिमशान्तौ शान्तं भवतीति ॥ ११ ॥
इति । अयोगदोषाश्च विभ्रंशहितास्तम्भादयो वक्ष्यमाणाः | आमदोष इति आमदोषनिमित्तविसूचिकादिः । पुरीषकोष्ठ इति पुरीषाद्यासक्तकोष्ठः । दुई नोक इति प्रागवमनोक्त दोषः स्वात् । विशेषेण विरेच्या नाह- कुष्ठेत्यादि । विसूचिकायां विरेचनमुत्तरकालं विशेषदोषहरणार्थं ज्ञेयम् ॥ १० ॥ ११ ॥
चक्रपाणिः - अनास्थाप्यानाह - अनास्थाप्यास्त्वित्यादि । मधुमेहशब्देन सर्व्वप्रमेहग्रहणम् ।
For Private and Personal Use Only