SearchBrowseAboutContactDonate
Page Preview
Page 1425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। पञ्चकर्मीयसिद्धिः मातशल्यादिताभिहतातिस्निग्धरूक्षदारुणकोष्ठाः क्षतादयश्च गर्भिण्यन्ताः॥१॥ तत्रसुभगस्य सुकुमारोक्तदोषः स्यात् । क्षतगुदस्य क्षते वायुः प्राणोपरोधकारी वरां रुजां जनयेत्। मुक्तनालमतिप्रवृत्त्या हन्यादधोभागरक्तपित्तिनञ्च तवद्। विलचितदुर्बलेन्द्रिथाल्याग्निनिरूढ़ा औषधवेगं न सहेरन् । कामादिव्यग्रमनसो न प्रवर्तते कृच्छ ण वा प्रवर्त्तमानमयोगदोषान् कुर्यात् । अजीर्णेन आमदोषः स्यात् । नवज्वरस्याविपक्वान् दोषान् न वहिनिहरेत् वातमेव च कोपयेत् । मदात्ययितस्य मद्यक्षीणे देहे वृद्धो वायुः प्राणोपरोधं कुर्यात् । आध्मातस्याध्मायमानस्य वा पुरीषकोष्ठनिचितो वायुर्विसर्पन् सहसानाहं करोति तीव्रतरं मरणं वा जनयेत्। शल्यार्दिताभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यादतिस्निग्धस्यातियोगभयं भवेत्। रूक्षस्य वायुरङ्गग्रह कुर्यात् । दारुणकोष्ठस्य विरेचनोद्धता दोषा हृच्छूलपवभेदानाहाङ्गमदच्छर्द्धिमूर्छाकमान् जनयित्वा प्राणान् निहन्युः । कम्मेभाराध्वहतोपवासमथुनाध्ययनाध्यशन-व्यायामचिन्ताप्रसक्तक्षामगाभण्यश्च अविरेच्याः ॥९॥ ___ गङ्गाधरः-तत्र दोषमाह-तत्रेत्यादि । सुभगस्य सौभाग्ययुक्तस्य विरेचनात सुकुमारोक्तवमनदोषो विकर्षणादूद्ध मधो वा रुधिरातिप्रवृत्तिः स्यात्। मुक्तनाल गुदस्थनालं यस्य स्रस्तं तं मुक्तनारू म् । तद्वदिति अतिप्रवृत्त्या हन्यात् । क्षतगुदश्च । भन्ये तु सुभगं सुखसम्बन्धिनमाहुः। युक्तवातो सम्वृतगुदः (१)। क्षतादयश्च गर्भिण्यन्ता इति वमनाविषयमध्यपठिताः ॥९॥ चक्रपाणिः-रुजां जनयेद विरेचनमिति शेषः। अधोभागरक्तपित्तिनं तद्वदिति प्रतिप्रवृत्त्या हन्यादित्यर्थः। कामादीत्यादौ आदिशब्देन शोकक्रोधादीनां ग्रहणम्। भत च अप्रवृत्तिः स्तोकप्रवृत्तिश्चायोग एव । उक्त हि-"अयोगः प्रतिलोम्येन न चाल्पं वा प्रधानम्" For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy