________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्याय:
सिद्धिस्थानम्।
३६५७ शेषास्त्वास्थाप्याः। सर्वाङ्गकाङ्गकुक्षिरोगवातवच्चोंमूत्रशुक्रसङ्गबलवर्णमांसरेतःक्षतदोषाध्मानाङ्गसुप्तिक्रिमिकोष्ठोदावर्तस्तब्धाङ्गातिसारसर्वाङ्गाभितापप्लीहगुल्मशूल-हृद्रोगगुदभगन्दरोन्मादबध्नशिरःकर्णहृदयपार्श्वकटीग्रहवेपनाक्षप-गौरवातिलाघवरजक्षयार्ताः। विषमानिस्फिगजानुजचोरुगुल्फपार्णिप्रपदयोनिवाह्याङ्गुलिस्तनाङ्गदन्त-पास्थिशूलशोथ-स्तम्भान्त्रकूजन - परिकर्तिकाल्पाल्पशब्दोग्रगन्धोत्थानादयो ये तु वातव्याधयः विशेषेण महारोगाध्यायोक्ताश्च। एष ह्यास्थापनं प्रधानतममित्युक्तं वनस्पतेर्मूलच्छदवत् ॥ १४ ॥ ___ य एवानास्थाप्यास्त एवाननुवास्या: स्युर्विशेषतस्त्वभुक्तभक्तनववर-पाण्डुरोगकामला-प्रमेहार्थोऽरोचक-मन्दाग्नि-दुबलप्रतिश्यायनीहकफोदरोरुस्तम्भवच्चोंमेद-पीतविषगरपित्तकफाभिष्यन्दगुरुकोष्टश्लीपदगलगण्डापचीक्रिमिकोष्ठिनश्च ॥ १५ ॥
तत्राभुक्तभक्तस्यानावृतमार्गत्वादूई मतिवर्तते स्नेहः । नवज्वरपाण्डुरोगकामलाप्रमेहिणां दोषानुक्तिश्योदरं जनयेत्।
गङ्गाधरः--शेषास्वास्थाप्या इति अजीर्णादिकुष्ठान्तेिभ्यः शेषा आस्थाप्या साक्रेत्यादि । तत्र सर्वाङ्गरोगादुरग्रगन्धोत्थानादयो ये रोगास्तथा महारोगाध्याये विशेषण येऽशीतिर्वातव्याधय उक्ता एषु ह्यास्थापनं प्रधानतममुक्तम् । कथम् १ वनस्पतेमलच्छेदवत् । वृक्षस्य मूलच्छेदेन यथा क्रमेण स्कन्धशाखादया शुष्यन्ति तथा ॥ १४ ॥ - गङ्गाधरः-अथाननुवास्यानाह-य एवेत्यादि। येऽजीर्णादयोऽनास्थाप्या उक्तास्तएवाननुवास्याः स्युः। विशेषतश्चाभुक्तभक्तादयः क्रिमिकोष्ट्यन्ता अननुवास्याः ॥१५॥ चक्रपाणिः-विशेषेणास्थाप्यानाह-सर्वाङ्गस्यादि । स्फिगादिभिः शूलशोषस्तम्भाः सम्बध्यन्ते । भननुवासनोपदर्शने भनास्थाप्येषु भुकभक्तः पठितः, तद्व्युदासार्थ अभुक्तभक्तोपादानम् ।
For Private and Personal Use Only