________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६५२
चरक-संहिता। पञ्चकर्मीयसिद्धिः तत्र क्षतस्य भूयः क्षणनाद्रक्तातिप्रवृत्तिः स्यात्। क्षीणातिस्थूलकुशवृद्धबालदुर्बलानां भेषजबलासहत्वात् प्राणोपरोधः । श्रान्तपिपासितक्षुधितानाञ्च तद्वत्। कर्मभाराध्वहतोपवासमथुनाध्ययनाध्यशनव्यायामचिन्ताप्रसक्तक्षामाणां रौक्ष्यास वातरक्तच्छदक्षतभयं स्यात् । गर्भिण्या गर्भव्यायामादामगर्भप्रपतनाच दारुणरोगप्राप्तिः। सुकुमारस्य हृदयविकर्षणादूद्ध मधो वा रुधिरातिप्रवृत्तिः। सम्वृतकोष्ठदुश्छदोरतिमात्रप्रवाहणाद् दोषाः समुक्लिष्टा ह्यन्तःकोष्ठे विसर्पन्तः स्तम्भं जाड्यं वैचित्त्यं मरणं वा जनयन्ति। ऊर्द्ध रक्तपित्तस्योदान ऊछ मुत्क्षिप्य प्राणानाहरेद रक्तञ्चातिप्रवत्तयेत् प्रसक्तछद्देस्तु तद्वत् । ऊद्ध वातास्थापितानुवासितानामूद्ध वातादिप्रवृत्तिः। हृद्रोगिणो हृदयावरोध उदावर्तिनो घोरोदावतः स्याच्छीघ्रहन्ता। मूत्राघातादिभिरार्तानां तीव्रतरशूलप्रादुर्भावस्तिमिरातनां तिमिराभिवृद्धिः शिरःशूलादिषु शूलातिवृद्धिस्तस्मादेते न वम्याः। सर्वेष्वपि खल्वेतेषु विषगरविरुद्धाभ्यवहारामकृतेष्वप्रतिषिद्ध शीघ्रकारिवाद दोषाणाम् ॥ ६॥ ७॥
गङ्गाधरः-अथ पञ्चकर्मणां कार्याकाव्यमाह-अवम्यास्वित्यादि। क्षतक्षीणादयो न वम्या वमनानर्हाः पाश्वशूलार्त्तान्ताः ॥५॥
गङ्गाधरः-तत्र दोषमाह-तत्रेत्यादि। तत्र वम्येषु मध्ये क्षतस्य वमनेन भूयः क्षणनाद्रक्तातिप्रवृत्तिः। क्षीणादीनां वमनासहखात्। श्रान्तादीना. मित्येवमादि स्पष्टम् । अवम्यानामेषामप्यवस्थाविशेषे वमनातामाह-सर्वेष्वपीत्यादि। क्षतक्षीणादिषु सर्वेषु । दोषाणां विषादिदोषाणाम् ॥६॥७॥
चक्रपाणिः- तल क्षतस्येत्यादिना यथोत्तवमनादाने हेतुमाह । प्राणोपरोधो मरणम्, बलक्षय इत्यन्ये। श्रान्तादीनां विच्छेदपाठेन प्राणोपरोधस्य पूर्वापेक्षया हीनमात्रत्वं दर्शयति । वातरक्तच्छेदक्षतभयमित्यस रक्तच्छेदो रक्तमोक्षः। सुकुमारस्येति मृडशरीरस्य। हृदयापकर्षणादिति हृदयहिंसनादिति। तत्वदिति अद्ध रक्तपित्तनामित्यत्रोक्तः दोषः। अवम्यानामवस्थायां
For Private and Personal Use Only