________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
सिद्धिस्थानम्।
३६५१ यादृच्छिको मुमूर्षश्च विहोनः करणैश्च यः। वरी वैद्यविदग्धश्च श्रद्धाहीनः सशङ्कितः॥ भिषजामविधेयश्च नोपक्रम्यो भिषग्विदा। एतानुपाचरन् वैद्यो बहून् दोषानवाप्नुयात् ॥ ३॥ एभ्योऽन्ये समुपक्रम्या नराः सव्वरुपक्रमः । अवस्था प्रविभज्यैषां कार्याकार्यश्च वक्ष्यते ॥ ४ ॥
अवम्यास्तु क्षतक्षीणातिस्थूलातिकुशवृद्धवालदुर्बलश्रान्तपिपासित -क्षुधित-कर्मभाराध्वहतोपवास-मथुनाध्ययनाध्यशन • व्यायामचिन्ताप्रसक्तक्षामगर्भिणीसुकुमारसम्वृतकोष्ठदुश्छ गर्छ । रक्तपित्तप्रसक्तच्छर्दू प्रर्द्ध वातास्थापितानुवासित-हृद्रोगोदावर्तिनः, मूत्राघातगुल्मप्नीहोदराष्ठीलावरोपघाततिमिरशिरःशङ्खकर्णाक्षिपार्श्वशूलाश्चि ॥ ५॥ कर्म भिनौपक्रम्य इति। तत्र यादृच्छिक इति या इच्छा यदृच्छा तया चरति यादृच्छिकः। वरी तच्चिकित्सकस्य शत्रुः। वद्यविदग्ध इति य आतुरः स्वयं वद्यविद्याविदग्ध इव वद्यविद्याभिमानी। एतेनातुरस्य चिकित्सायां यः कत्ता तदुपलक्षणमिदं ख्यापितमिति। भिषजामविधेयश्च अकर्तव्यविधिकः । कस्मानोपक्रम्य इत्यत उच्यते-एतानित्यादि। एतान् चण्डादीनानुरान् उपाचरन् वद्यो बहून् दोषानवाप्नुयात् ॥३॥ • गङ्गाधररा-एभ्योऽन्ये चण्डादिभ्य आतुरेभ्योऽन्ये नराः स्वस्थाश्च सर्च रुपक्रमः समुपक्रम्याः। एषामुपक्रम्याणामवस्थां प्रविभज्य काय्योकाय्य वक्ष्यते। इति सवोपक्रमे कार्याकार्यमुक्तम् ॥४॥ विशेषणम्। तद्विष्ट इति सदादिद्वेष्यः। यादृच्छिको नास्तिकः। विहीनः करुगैरित्यकरुणः । वैरी वैयापकारक, वैद्यद्वेष्टा नापकारक इति तु विशेषः। वैद्यविदग्धो वैद्याभिमानी। भिषजामविधेय इति भिषजामनायत्तः। सवैरिति वमनादिभिरन्यैश्च संशमनादिभिः। एषामिति चण्डादिव्यतिरिक्तानाम् ॥ ३ ॥४॥
चक्रपाणिः-सम्प्रत्युपक्रमणीयाना मेव रोगादियोगकृतावस्थाभेदेनाऽकर्तव्यपञ्चकर्म दर्शयन् आह-अवम्यास्तावदियादि। अवम्यादौ तावत्' इतिपदं प्राकप्रस्तुतोपदर्शनार्थम् । प्रसतशब्दो मैथनादिभिः प्रत्येक सम्बध्यते। सम्वृतकोष्ठो वायुनाल्पीकृतकोष्ठः, वायुच्याप्तकोष्ठ इत्येके ॥५॥
For Private and Personal Use Only