________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः। अथातः पञ्चकर्मीयसिद्धि व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥१॥ येषां यस्माच्च कर्माणि अग्निवेश न कारयेत् । येषाञ्च कारयेत् तानि तत् सर्वश्च प्रचक्ष्यते ॥ पञ्चकर्माणि येषान्तु न कुर्य्याद येन हेतुना। येषां यानि च कर्माणि तत् सव्वं संप्रचक्ष्यते ॥२॥® चण्डः साहसिको भीरुः कृतघ्नों व्यग्र एव च। सद्यनृपतिद्वष्टा तद्विष्टः शोकपीड़ितः ॥ गङ्गाधरः-अथाध्यायोद्देशक्रमात् पञ्चकर्मीयसिद्धिमाह-अथात इत्यादि। सर्च पूर्ववद् व्याख्येयम् ॥१॥
गङ्गाधरः-यदिहाभिधेयं तदाह-येषां यस्मादित्यादि। यस्मात् कारणाद येषां सर्वाणि चिकित्सितानि कर्माणि न कारयेत् येषाश्च यस्मात् तानि कारयेत् तत् सर्व प्रचक्ष्यते। एवं येषां येन हेतुना पञ्चकर्माणि न कारयेत् येषां येन हेतुना तानि पञ्चकर्माणि कारयेत् तत् सर्वश्च प्रचक्ष्यते ॥२॥
गङ्गाधरः-चण्ड इत्यादि। चण्डादिः पुरुषो भिषविदा वदान सवरेव
चक्रपाणिः-कल्पनासिद्धौ ज्ञातकोपयोगस्य कर्मप्रवृत्तिनिवृत्तिविषयकजिज्ञासा भवति, ततः तदुपदर्शनार्थं पञ्चकर्मीयसिद्धिरुच्यते। पञ्चकर्मप्रवृत्तिनिवृत्तिविषयज्ञानार्थमधिकृत्य कृता सिद्धिः पञ्चकर्मीया सिद्धिः। येषामित्यादिनाऽध्यायार्थ सङ्कल्प्य प्रतीजानीते। पञ्च कम्माणि येषां न कार्याणीत्यनेन व्यस्तानि समस्तानि च येषां न कार्याणि, तानि पृथग वक्ष्यन्ते ॥१२॥
चक्रपाणिः-अतः चण्ड इत्यादिना सकलपञ्चकर्माविषयमाह । यद्यपि च विमाने जनपदोदंसनीये रोगभिषगजितीये वाऽनपवादप्रतीकारादयोऽनुपक्रमणीयत्वेनोक्ता एव, तथापीह प्रकरणागतत्वात् पुनरुच्यते। चण्डादिषु प्रवृत्तिभैषजस्थाशक्यत्वानिषिध्यते। कृतवादिषु चाधर्मवशादेव भेषजं न सिध्यति। प्रत्युताशार्मिकप्रतिक्रिययाऽधर्म एव भवतीति निवृत्तिः विधीयते। सतो राजानं भिषजच द्वेष्टीति सद्राजभिषा द्वेष्टा, किंवा 'सद्' इति राज्ञो भिषजन्य
• येषां यस्मात् पञ्चकर्माण्यग्निवेश न कारयेत्। येषाच कारयेत् तानि तत् सर्व संप्रवक्ष्यते॥ इति पाठः समीचीनोऽपि जल्पकल्पतरुटीकाननुगतस्वात् न गृहीतोऽस्माभिः ।
For Private and Personal Use Only