SearchBrowseAboutContactDonate
Page Preview
Page 1420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः । सिद्धिस्थानम् । ३६४६ तत्र श्लोक। प्रश्नानिमान् द्वादश पञ्चकर्माण्युदिश्य शिष्याय समाहिताय । प्रजाहितार्थ भगवान् महात्मा सम्यग् जगादर्षिवरोऽत्रिपुत्रः॥४३॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने कल्पनासिद्धिर्नाम प्रथमोऽध्यायः॥१॥ गङ्गाधरः-इति सव्वप्रश्नोत्तरं समाप्तम्। अथोपसंहरति-तत्र श्लोक इति । प्रश्नानिमानित्यादि। पञ्चकर्माप्युद्दिश्य द्वादश प्रश्नान् सम्यग् जगाद प्रत्युवाचेत्यथः । यदुपसगणोपसृष्टो धातुर्यमर्थमाह तदर्थवाची स एव हि धातुः, उपसगस्तु तद्योतक इत्युपसगांभावेऽपि तमर्थश्च स धातुराहेति सिद्धान्तः। प्रतिजगादेत्यथः॥४३॥ गङ्गाधरः-अध्यायं समापयति अग्नीत्यादि। अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अप्राप्ते तु दृढ़वल-प्रतिसस्कृत एव च । सिद्धिस्थानेऽष्टमे खादा कल्पनासिद्धिनामके। अध्यायेऽत्र जल्पकल्प-तरौ गङ्गाधरेण तु । कृते स्कन्धेऽष्टमे सिद्धि-स्थाने तु प्रथमस्य च। कल्पनासिद्धाध्यायस्य शाखा जल्पाभिधेरिता॥१॥ चक्रपाणि:-प्रश्नानित्यादिनाध्यायार्थ संगृह्णाति। संग्रहश्च व्यक्तः ॥ ४३ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरकतापर्यटीकायां सिद्धिस्थानच्याख्यायां कल्पनासिद्रिव्याख्या नाम प्रथमोऽध्यायः ॥ १ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy