________________
Shri Mahavir Jain Aradhana Kendra
३६४८
www.kobatirth.org
-
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
रोगास्तथान्येऽपि विवर्यमाणाः परस्परेणापि गृहीतमार्गाः ।
सन्दूषिता धातुभिरेव चान्यैः स्वभेषजैर्न प्रशमं व्रजन्ति ॥ ४१ ॥ सर्व्वाङ्ग - रोगप्रशमाय कर्म - 8 हीनातिमात्रं विपरीतकालम् । मिथ्योपचाराच्च न तं विकारं शान्तिं नयेत् पथ्यमपि प्रयुक्तम् ॥ ४२ ॥
तथान्येऽपि रोगाः परस्परेण गृहीतमार्गाः सन्तो वित्तर्यमाणाः स्युः । अन्यर्धातुभिश्च सन्दूषिता रोगाः स्वर्भेषजः प्रशमं न यान्ति ॥ ४० ॥ ४१ ॥
गङ्गाधरः - अपरञ्च - सर्व्वाङ्गरोगप्रशमाय विपरीतकालमयथाकाले हीनातिमात्र कम्मे मिथ्योपचारादययाथप्रयोगात् तं तं विकारं शान्ति न नयेत्, पथ्यमपि प्रयुक्त शान्तिं न नयेत् ॥ ४२ ॥
[ कल्पनासिद्धिः
अत एव अबुधः इति कृतम् । अन्यखाप्युक्तम् - " कुपितो मार्गसंरोधान्मेदसो वा कफस्य वा । अतिवृद्धा निलो नादt at नेहेन वृंहणम्" इति । अवितर्क्यमाणा इति असम्यग्ज्ञायमानाः, असम्यग गज्ञायमानत्व एव हेतुमाह- परस्परेणेत्यादि । रोगशब्देनात्र दोषोऽभिप्रेतः । परस्परेण प्रतिबद्धमार्गा अतो दुहा भवन्ति, तथा धातुभिश्व रक्तादिभिश्व सन्दूषिताः सम्मूर्च्छिताः सन्ता दुइया भवन्ति, अविज्ञाताश्च स्व भैषजैर्न प्रशमं व्रजन्ति । स्वर्भेषजैरिति मार्गावराजादिकरणदोषधात्वन्तरनिरपेक्ष कैरेकदोषभेषजैः । तद्वि तथाभूतानां भेषजं यौगिकं न भवत्येव, अतोऽनुपशमो युक्त एव । एवञ्च दोषाणां परस्परावरोधान् तथा धातुसम्मूर्च्छनविशेषांश्चावगम्यैव व्याधौ प्रषवोऽनुसरणीयः ॥ ४० ॥ ४१ ॥
चक्रपाणिः - अथ विज्ञातेऽपि बाधौ भिषजाऽसम्यक प्रयोगादिभिर्वर्द्धमानेऽसिद्धिमाहयादि । विपरीतकालमिति अनुचित कालकृतम् । मिथ्योपचाराच्चेति भेषजानां तथाऽकरणात् । यथा – भेषजस्य सम्यकपरिणामे सति भोक्तव्यम् । यद् यौगिकं भेषजम्, तत् सम्यक प्रयुक्तं सिध्यतीति सिद्धान्तः ॥ ४२ ॥
सर्व्वचेति चक्रसम्मतः पाठः ।
For Private and Personal Use Only