________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
चिकित्सितस्थानम् । २३७१ श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गणे । घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः॥७॥ फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम् । कुड़वश्चूर्णितानां स्यात् स्वयंगुप्ताफलस्य च ॥ कुड़वश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयोः । गोधूमशालिचूर्णानां कुड़वः कुड़वो भवेत् ॥
तदर्द्ध क्षीरसर्पिषा पष्टिकमन्नं भुक्त्वा रात्रि व्याप्य क्षरत् शुक्रक्षरत् अस्तब्धश्च लिङ्गं न पश्यति। एवंप्रयोगात् काले नरो रात्रि व्याप्य अक्षरच्छुक्र स्तब्धञ्च लिङ्गं पश्यतीति भावः ॥६॥ ___ गङ्गाधरः-श्वदंष्ट्रत्यादि। माषाणां तुषरहिता विदलाः षष्टिकतण्डुलाश्च दयोर्यावन्मानं तस्य समे श्वदंष्ट्राया रसे तत्समे च विदार्याः स्वरसे गृष्ट्यादिलक्षणाया माषपर्णभृताया इक्ष्वादाया अज्जुनादाया वा धेन्वाः क्षीरचतुगुणे साधितः पायसः पुन तान्यः सपिबहुलप्रक्षेपेणाढ्यो दृष्यः। शीते तु तत्र पायसे केचिन्मधुशकरे अनुरूपे ददति ॥७॥ ___ गङ्गाधरः-फलानामित्यादि। जीवनीयानां जीवकर्षभकमेदामहामेदाकाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीजीवन्तीमधुकानां दशानां फलानाम् । स्निग्धानां स्नेहोपगानां मृद्रीकामधुकमधुपर्णीमेदाविदारीकाकोलीक्षीरकाकोली. जीवकजीवन्तीशालपर्णीनां दशानां फलानाम्। रुचिकारिणां हृद्यानामाम्राम्रातकनिचुलकरमईकक्षालालवेतसकुवलबदरदाडिममातुलुङ्गानां दशानां फलानाम्। चर्णितानां दशशो भिलिखा कुड़वः। स्वयंगुप्ताफलस्य खगादिरहितस्य चर्णकुड़वः । माषाणां तुषरहितानां विदलानां चर्णस्य कुड़व एक
चक्रपाणिः-फलानामित्यादि। फलानामिति जीवनीयानामित्यादीनां बयाणां प्रत्येकमभिसम्बध्यते । जीवनीयानामिति पटककषायवर्गोक्तानां जीवकर्षभादोनां दशानाम् । स्निग्धानामिति स्नेहोपगानां मृद्वीकादीनां दशानां सप्तककषायवर्गोक्तानाम् । तथा रुचिकारिणामिति चतुष्ककषायवर्गोक्तानामाम्रादीनां हृद्यानां दशानामिति । एषां जीवनीयप्रभृतीनां फलानां चूर्णि तानां मिलित्वा कुड़वो ग्राह्यः । (अन्यदतिरोहितार्थम्), तथा ह्ययं प्रयोगो जतूकणे च पठ्यते- "द्राक्षाखजूरमाषाजड़ा
For Private and Personal Use Only